________________
प्रमाणप्रकरणम्
२०५
तद्भदे ऽपि दर्शनात् , अथ तत्र स्त्रीपुंसयोरभेदे चुम्बनादिक्रियामात्रभेद एवेत्युच्यते तथा ऽप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु पञ्चकृत्वो ब्राह्मणा मुक्तवन्त इति व्यवहारो दृश्यते।
कविना सदनुप्रासे निबद्धे ऽचरडम्बरे । गकारा बहवो दृष्टा इति व्यवहरन्ति हि ॥ यदपि प्रत्यभिज्ञानं तद्वारकमुदाहृतम् । तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनता भवेत् ॥ नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् । विशेषं प्रत्यभिज्ञाने न पश्यामो मनागपि ॥ शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते।
शब्दरूपस्य विध्वंस इति तन्नित्यता कुतः ॥ यद्यपि च क्षणभङ्गभङ्ग प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते तथा ऽपि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषः यदत्र ध्वस्त: शब्द इति तदैव प्रत्ययो जायते अत एव तिरोहिते ऽपि भावादियमप्रमाणं प्रत्यभिज्ञत्याहुः।
यद्यपि ध्रियते ऽस्माकं शब्दो द्वित्रानपि क्षणान् ।
प्रत्यभिज्ञा तु कालेन तावता नावकल्पते ॥ तथा हि शब्द उत्पद्यते तावत्ततः खविषयं ज्ञानं जनयति अजनकस्य प्र. तिभासायोगात् ततस्तेन ज्ञानेन शब्दो गृह्यते ततः संस्कारबोधः ततः पूर्वज्ञातशब्दस्मरणं ततस्तत्सचिवं श्रोत्रं मनो वा शब्दप्रत्यभिज्ञानं जनयिष्यति तथा शब्दो प्रहीष्यते इतीयत्कुतो ऽस्य दीर्घमायुः, प्रत्यभिज्ञाप्रामाण्यादेव तावदायु. स्तस्य कल्प्यते इति चेत्सत्यं कल्प्येत यदि विनाशप्रत्ययस्तदैव न स्यात् , मपि च गोशब्दो ऽयमश्वशब्दो ऽयमिति तदमिधानविशेषोल्लेखात् ।
नानानुस्मरणं तस्य तदैवावश्यमापतेत् । विज्ञानयोगपद्याच कालो दीर्घतरो भवेत् ॥ यदप्युदितमुद्दाममेघश्यामासु रात्रिषु ।। साम्यं सौदामिनीघामजन्यया प्रत्यभिज्ञया । तदसत्कालदेध्येण तवस्थितिसम्भवात् ।
विद्युद्दष्टे च वृक्षादौ नाशसंवित्त्यसम्भवात् ॥ प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यप्राहिणी|संस्कारसचिवेन्द्रियजन्या प्रतीतिरिति के चित्।
अन्ये मन्यन्ते स्मर्यमाणपूर्वज्ञानविशेषितार्थप्राहित्वात्प्रत्यभिज्ञायास्तद्विशे. पणस्य चार्थस्य बालेन्द्रियप्रह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति ।