________________
न्यायमञ्जर्याम्
निर्बन्धस्त्विाह नास्माकं सा यथा ऽस्तु तथास्तु वा। शब्दे विनाशज्ञानात्तु न सा नित्यत्वसाधिका ।। बाध्यबाधकभावे तु नियमो ननु किंकृतः । शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥ उच्यते प्रत्यभिज्ञानमन्यथा ऽप्युपपद्यते । गत्वादिजातिविषयं यद्वा सादृश्यहेतुकम् ॥ न त्वभिव्यनकध्वंसान्नाशधीरपि सेत्स्यति । तदसावपि बाध्या ऽस्तु यद्वा भवतु संशयः ॥ मैवं विनाशिताबुद्धिभेंदबुद्ध्युपबृंहिता। सा चेयं चान्यथासिद्ध इति वक्तुमसाम्प्रतम् ॥ प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः ।
तेनैवमादो विषये प्रत्यभिज्ञैव बाध्यते ॥ शब्दाभावस्य ग्रहणात्प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् , अपि च प्रत्यभिक्षा व्यभिचरति कर्मादिषु गृह्यते तेनास्यां शब्दे ऽप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः, न चेदं प्रत्यक्षे ऽप्यनैकान्तिकत्वोद्भावनम् अपि तु विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देपि न साध. यितुं प्रभवति इति दृष्टान्तस्य को ऽवसरः, सत्यम् ग्राहिकास्तु भवादृशाः स्वयमनवबुध्यमाना एवं बुद्ध्यन्ते ।
यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनं तदत्यन्तमलौकिकमित्युक्तम् ।
किं नाम शब्दनित्यत्वसमर्थनतृषातुरः।
जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ।। तस्मादलमतिरभसप्रवृत्ताभिराभिर्बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः ।
शब्दाभिव्यक्तिपक्षखण्डनम् यत्पुनरभिव्यक्तिपक्षे शब्दस्य ग्रहणे नियमाभावमाशङ्कय श्रोत्रसंस्कारेण विषयसंस्कारेणेभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितं तद्वञ्चनामात्रम्, समान. देशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यजकव्यङ्गयत्वादर्शनात् , ये पुनरत्र गन्धा उदाहृताः ते समानेन्द्रियग्राह्या भवन्ति न समानदेशाः ।
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने । भवेत्समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥ एकत्वे ऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् । व्यज्यन्ते तदधिष्ठाना गन्धास्तैस्तैर्निबन्धनैः॥