________________
प्रमाणप्रकरणम्
२०७
भवन्त्वनाश्रिताः शब्दा यदि वा ऽऽकाशसंश्रिताः ।
सर्वथा भिन्नदेशत्वमेषां वक्तुं न शक्यते ॥ ननु यथैकत्वे ऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेदः एवं तद्भागकल्पनयैव शब्दानामपि असमानदेशत्वानियतव्यजकव्यङ्गयताभविष्यति नैवमुपपद्यते यत्रैव वक्तृमुखाकाशदेशे श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः तत्रैवाश्वशब्द इदानीमुपलभ्यते न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः स बन्धूके मधुके वा कदा चिदुपलभ्यते इति ।
तस्मात्समानदेशत्वान्न व्यक्ती नियमो भवेत् । उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते ।। नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा । सर्वथा नियमो नास्ति व्यजकेष्विति निश्चयः ।। व्यवस्था व्यजकानां चेदुच्यते ऽदृष्टकारिता ।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ।। न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते, तत्र चातिप्रसङ्ग उक्त एवातिरिक्तसंस्कारकल्पनायां त्वष्टकल्पना, स्थिरे च शब्दसं. स्कारग्रहणमिति पुनरनभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात् , तग्रहणहेतोः संस्कारस्य स्थिरत्वात् , तत्क्षणिकत्वे तु शब्दक्षणिकतैव साध्वी प्रतीयमानत्वात्। __यत्तु भर्तृमित्रस्तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति तदिदमपूर्वकं किमपि पाण्डित्यम् , इन्द्रियस्य हि संस्कार्यस्य कल्पनमनुपपन्नम् , अनश्वरत्वे तु शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किं चिदेतत् , भट्टेनैव सोपहासमेष दूषितः पक्ष इति किमत्र विमर्दैन । यदपि भट्ट आह
यदि त्ववश्यं वक्तव्यस्तार्किकोक्तिविपर्ययः ।
ततो वेदानुसारेण कार्या दिक्श्रोत्रतामतिरिति(१) ॥ तदप्यसांप्रतम्
दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः ।
आहोपुरुषिकामात्रं दिग्द्रव्यश्रोत्रकल्पनम् ।। इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वादिशश्चामूर्तत्वानेन्द्रियप्रकृतित्वं व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः, तयोरन्यत्र व्यापारकत्वान्नेन्द्रियप्रकृतित्वमिति चेद् दिग्द्रव्ये ऽपि तुल्यमेतत्, आगमस्त्वन्यपर एव,
(१) श्लोकवार्तिके शब्दाधिकरणे श्लो. १५० । अध्रिगुप्रैषे संज्ञप्यमानस्य पशोरङ्गानां प्रकृतौ लयः सूर्य चक्षुर्गमयतादित्यादिना उक्तस्तत्रैव दिशःश्रोत्रम्। इति श्रोत्रस्य दिशि लयः प्रतिपादित इतिवेदानुसारेण दिश एव श्रोत्रत्वं नाकाशस्येत्यर्थः ।