________________
२०८
न्यायमअर्याम् यथा हि सूर्य चक्षुर्गमयताद् दिशः श्रोत्रमिति पठ्यते एवमन्तरिक्षमसूनिति च पठ्यते एव, न चासवो ऽन्तरिक्षप्रकृतिकाः पवनात्मकत्वात् , तस्मात्कृतं दिशा
आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः श्रोत्रमित्युक्तम् । . ननु धर्माधर्मकृतश्रोत्रनियमवदभिव्यक्तिनियमो ऽपि शब्दस्य तत्कृत एव भविष्यति किमिति तदनियमो नित्यत्वपक्षे चोद्यते इति, नैता क्तम् , चक्षुरादीन्द्रियाणां वैकल्यमदृष्टनिबन्धनमन्धकारप्रभृतिषु दृश्यते न पुनः पदार्थस्थितिरदृष्टवशाद्विपरिवर्त्तते, व्यञ्जकधर्मातिक्रमे हि हिममपि शैत्यं स्वधर्ममतिक्रामेत् , व्यजकेषु नियमो न दृष्ट इत्युक्तम् , दृष्टे च वर्णभेदे नियतोपलब्धिहे. तो सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते, कथं चाभिव्यक्तिपक्षे तीव्रमन्दविभागः, तीव्रतादयो हि वर्णधर्मा वा स्युः ध्वनिधर्मा वा वर्णधर्मत्वे तीव्रगकारादन्यत्वं मन्दस्येत्यस्मन्मतानप्रवेशः ।
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ।
न हि वायुगतो वेगः श्रवणेनोपलभ्यते । यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयो जातावुपलभ्यन्ते इति दर्शितं तत्काममुपपद्येतापि जाते~क्तस्तद्धर्माणां च समानेन्द्रियग्राह्यत्वात् ।
इह तु स्पर्शनप्रायः पवनो ऽतीन्द्रियो ऽथ वा।
तद्धमोः श्रावणे शब्दे गृह्यन्त इति विस्मयः ।। यत्तु बुद्धिरेव तीव्रमन्दवतीति तदतीव सुभाषितम् , असति विषयभेदे बुद्धिभेदानुपपत्तेः ।
किं च नित्यपरोक्षा ते बुद्धिरेवं च नादवत् । तद्ग्रहान्न तीव्रादितद्धर्मग्रहसम्भवः ।। अहो तीव्रादयस्तोत्रे प्रपाते पतिता अमी। यो गृह्यते न तद्धर्मा यद्धर्माः स न गृह्यते ।। यश्चाभिभववृत्तान्तस्त्वन्मते मरुतामसौ । अनिले चाभिभूते ऽपि शब्दो न श्रूयते कथम् ॥ दीपे ऽभिभूते रविणा न हि रूपं न गृह्यते । नियतव्यजकत्वं तु प्रतिक्षिप्तमदर्शनात् ।। यत्त शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये । शब्दत्वं तत्र तग्राह्यमित्यवादि तदप्यसत् ।। सत्यं वदत दृष्टं वा श्रुतं वा क चिदीदृशम् । आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥