________________
प्रमाणप्रकरणम्
२०९
शब्दो न ते ऽस्त्य(स्ति)वर्णात्मा न शङ्खो(ब्दो)वर्णसम्भवः । न नादवृत्ति शब्दत्वमिति तद्ग्रहणं कथम् ॥
अभिव्यङ्ग्यशब्दपक्षापेक्षया कार्यशब्दपक्षे लाघवम् । यत्पुनरिदं सन्धारितं व्यङ्गयकार्यपक्षयोः क शब्दग्रहणे गुर्वी कल्पना भवति क वा लध्वीति तदपि मौलप्रमाणविचारसापेक्षत्वादप्रयोजकम् ।
यदि मौलप्रमाणेन साधिता नित्यशब्दता ।।
त्वदुक्ता कल्पना साध्वा मदुक्ता तु विपर्यये ।। कोष्ठयेन च बहिः प्रसरता समीरणेन सर्वतः स्मिमितमारुतापसरणं क्रियते इत्येतदेव तावदलौकिकं कल्पितम् , "अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनमणुमनसोश्चाद्यं कर्मेत्यष्टकारितानि"इति(१) मरुतां तिर्यग्गमनस्वभावत्वादूर्ध्वमधश्च शब्दश्रवणं न भवेत् ।
यावन्न वेगिना ऽन्येन प्रेरितो मातरिश्वना । तावन्नेसर्गिको वायुने तियग्गतिमुज्झति ।। अधोमुखप्रयुक्तोऽपि शब्द उच्च प्रतीयते । उत्तानवदनोक्तो ऽपि नाधो न श्रूयते च सः ॥ कदम्बगोलकाकारशब्दारम्भो हि सम्भवेत् । न पुनईश्यते लोके तादृशी मरुतां गतिः ।। आकण्ठानद्धनीरन्ध्रचोवृतमुखोदितः ।
शब्दो यः श्रूयते तत्र न कोष्ठयानिलसर्पणम् ॥ कुड्यादिप्रतिबन्धेन वायोरप्रसरणं भवद्भिरपि कथितमेव निर्विवरचर्मपु. टोपरुद्धो ऽप्यसौ न प्रसरेत् ।
अपि च सर्वतोनिरुद्धनवद्वारस्थापि जठरे गुरगुराशब्दो मन्दाग्नेः श्रयते अत्र कुतो व्यञ्जकानां कोष्ठ्य पवनानां निस्सतिः, रोमकूपनिस्सृतानामपि सू. क्ष्मतया स्तिमितबाह्यवावपसरणसामर्थ्याभावः, किं च मनागपि बहिर्वायो वाति न शब्दश्रवणं स्यादिति दुर्बलो ऽपि बाह्यः पवनः प्रबलादपि कोष्ठ्यवा. योर्बलीयान्भवतीति कथं तेनापसार्येत, अन्ये एव सूक्ष्मा वायवः शब्दावरण. कारिणो न पुनरेते परिदृश्यमानाः श्यामाः श्यामाकलतालास्योपदेशिनो मात रिश्वान इति चेन्न, विशेषे प्रमाणाभावात् यं च सूक्ष्मा अपि वायवः तिरोदधति तं सुतरां बलीयांसो ऽपि विवृणुयुरिति यत्किं चिदेतन् , तस्मात्सजातीयशब्दसन्तानारम्भपक्ष एव युक्त्यनुगुणः, तथा हि सजातीयगुणारम्भिणो गुणा. स्तावदृश्यन्ते एव रूपादयः, अमूर्त्ता ऽपि च बुद्धिर्बुध्यन्तरमारभमाणा दृश्य
(१) वैशेषिकसूत्रम् अ० ६ मा० २ सू० १४ ।
२७न्या