________________
२१०
न्यायमचर्याम् ते देशान्तरे ऽपि सैव कार्यमारभते पथि गच्छतो देवदत्तादेरेकस्मादात्मप्रदेशाप्रदेशान्तरे बुद्ध्युत्पाददर्शनात् , कार्यारम्भविरतिरपि भवति अदृष्टाधीनसंसगाणां सहकारिणामनवस्थानात् ।
तीब्रेणापि शनैरेवमतीव्रारम्भसम्भवः । सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना॥ वीचीसंतानदृष्टान्तः किं चित्साम्यादुदाहृतः ।
न तु वेगादिसामर्थ्य शब्दानामस्त्यपामिव ।। यत्त कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति, नैष दोषः, निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथा दर्शनात्कल्प्यते नाकाशमात्रस्येति ।
शब्दस्य गुणत्वसाधनम् । यदपि गुणत्वमसिद्धं शब्दस्येति तत्र के चिदाश्रितत्वाद् गुणत्वमाचक्षते, तदयुक्तम्
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते । षण्णामपि पदार्थानामाश्रितत्वस्य सम्भवात् ।। दिकालपरमाण्वादिनित्यद्रव्यातिरेकिणः ।
आश्रिताःषडपीष्यन्ते पदार्थाः कणभोजिना ।। न च व्योमाश्रितत्वमपि शब्दस्य प्रत्यक्षमप्रत्यक्षे नभसि तदाश्रितत्वस्याप्यप्रत्यक्षत्वात्।
कथमाधारपारोक्ष्ये शब्दाप्रत्यक्षतेति चेत् ।
यथैवात्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम् ॥ एतदेवासिद्धमिति चेद् अलं वादान्तरगमनेन उपरिष्टान्निणेष्यमाणत्वात, किमेतर्हि शब्दस्य गुणत्वे प्रमाणं परिशेषानुमानमिति ब्रमः, प्रसक्तयोर्द्रव्यकमणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः, कथं पुनः न द्रव्यं शब्दः एकद्रव्यत्वात् , अद्रव्यं वा भवति द्रव्यम् आकाशपरमाण्वादि अनेकद्रव्यं वा घणुकादि कार्यद्रव्यम , एकद्रव्यं तु शब्दः एकाकाशाश्रित. त्वात् तस्मान द्रव्यम् , नापि कर्मशब्दः शब्दान्तरजनकत्वात् , कर्मणो हिस. मानजात्यारम्भकत्वं नास्ति सत्ताशब्दत्वादिसामान्यसम्बन्धाञ्च सामान्यादित्र. यप्रसङ्गो ऽस्य नास्तीति पारिशेष्याद् गुण एव शब्दः । . ननु गुणत्वसिद्धौ सत्यामाकाशाश्रितत्वं शब्दस्य भविष्यति गुणस्य द्रव्यानाश्रितस्यादर्शनात् पृथिव्यादीनां च शब्दाश्रयत्वानुपपत्तेः, ततश्च गुणत्वे सत्ये. कद्रव्यत्वम् एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् , तथा च समानजा