________________
प्रमाणप्रकरणम्
२११ तीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव, गुणत्वे सति शब्दस्याकाशाश्रितत्वात्तदात्मकेन श्रोत्रेण ग्रहणं तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य सन्तानमन्तरेण श्रोत्रदेशप्राप्त्यभावान्न सिद्ध्यतीति गुणत्वसिद्धिमला सन्तानकल्पना सन्तानकल्पनायां च समानजात्यारम्भकत्वात्कर्मव्यवच्छेदे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वमेव,
उच्यते, नोभयत्राप्येष दोषः श्रोत्रप्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं कल्प्यते समानजातीयारम्भकत्वं च गुणत्वात् , आकाशैकदेशो हि श्रोत्रमिति प्रसाधितमेतत् , प्राप्यकारित्वं चेन्द्रियाणां वक्ष्यते, न चाकाशानाश्रितत्वे शब्दस्य श्रोत्रेण प्राप्तिर्भवति न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते, एवं समा. नजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवत्तिनः शब्दस्य श्रवणे सति कल्प्यते न तु गुणत्वादिति नेतरेतराश्रयत्वम् , कार्यत्वादाकाशाश्रितत्वं कल्प्यते इत्येके। ___ ननु कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयं कार्यत्वादाकाशाश्रितत्वमाकाशाश्रितत्वे सति नियतग्रहणपूर्व पूर्वरीत्या कार्यत्वमिति, नैतदेवम् , भेदविनाशप्रतिभासाभ्यामेव कार्यत्वसिद्धः, किमर्थस्तहि नियतग्रहणसमर्थनायायमियान्प्रयासः क्रियते, नियतग्रहणमपि कार्यपक्षानुगुणमिति दर्शयितुं न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मेक्षिकया ।
अपर आह परिस्पन्दविलक्षणस्य प्रत्यक्षत्वादकर्मत्वं शब्दस्य साध्यते न समानजात्यारम्भकत्वादितीतरेतराश्रयस्पर्शो ऽपि नास्तीति, तस्मात्सर्वथा परि शेषानुमानाच्छब्दस्य गुणत्वसिद्धिः, कथं तहस्य महत्त्वादियोगो निगुणा गुणा इति काणादाः, अस्ति हि प्रतीतिर्महान् शब्द इति, समानजातीयगुणाभिप्राय तत्कणादवचनमिति न दोषः, तस्मादाकाशगुणः, शब्दः । अपि च
यथा ऽऽत्मगुणता होच्छाद्वेषादेरुपपत्स्यते ।
शब्दो नयेन तेनैव भविष्यति नभोगुणः । ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः शब्दत्वादित्यादयः परैरुप. न्यस्ताः तेषामप्रयोजकत्वान्न साधनत्वम् ।
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे । कल्पना ऽल्पतरा ऽस्माकं न शब्दव्यक्तिवादिनाम् ।। शाक्यकापिलनिर्ग्रन्थग्रथितप्रक्रियाम्प्रति ।
यत्त दूषणमाख्यातमस्माकं प्रियमेव तत् ।। तस्मात्कार्यपक्षे नियतग्रहणोपपत्तेः अभिव्यक्तिपक्षे च तदभावात्कार्य एव शब्द इति स्थितम्, तदिदमुक्तं सूत्रकृता 'आदिमत्त्वादेन्द्रियकत्वात्कृतकवदुप