________________
२१२
न्यायमअर्याम्
चाराच्चानित्यःशब्द' इति(१)। आदिमत्त्वादिति संयोगविभागादीनां शब्दे कारकत्वं न व्यजकत्वमिति दर्शितम, अतश्च न प्रयत्नान्तरीयकत्वमनकान्तिकम्, ऐन्द्रियकत्वादिति, कार्यपक्षे एव शब्दस्य नियतं ग्रहणमित्युक्तम् , प्रतिपुरुषं प्रत्युच्चारणं च शब्दभेदस्यन्द्रियकत्वादिति वा हेत्वः, तेन प्रत्यभिज्ञादुराशा श्रोत्रियाणामपाकृता भवति, कृतकवदुपचारादिति तीव्रमन्दविभागाभिभवादिव्यवहारदर्शनात्सुखदुःखादिवदनित्यः शब्द इति दर्शितम् , तथा “प्रागुच्चारणादनुपलब्धेः आवरणाद्यनुपलब्धेश्च" इत्यनेन(२) सूत्रेण शब्दाभावकृतमेव तदग्रहणमिति, न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति मूर्त हि मून व्यवधीयते नामूर्तमाकाशादिवत, न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः, तस्मात्क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावत्थानमित्यस्थानहेतो(३)रपि नान्यथा. सिद्धत्वम् , वात्तिककृता(४) शब्दानित्यत्वे साधनमभिहितम् अनित्यः शब्दो जातिमत्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वाद् घटवदिति । ___यत्त्वत्र जातीनामपि जातिमत्त्वादनैकान्तिकत्वमुद्भावितम् 'एकार्थसमवायेन जातिर्जातिमती यत' इति तदत्यन्तमनुपपन्नम्, निस्सामान्यानि सामान्यादीनीति सुप्रसिद्धत्वात् , न हि घटे घटत्वपार्थिवत्वे स्त इति घटत्वसामान्ये ऽपि पार्थिवत्व सामान्यमस्तीति शक्यते वक्तुम् , अतो निरवद्य एवायं हेतुः, तेन यदुच्यते
जातिमत्त्वन्द्रियत्वादिवस्तुसन्मात्रबन्धनम् ।
शब्दानित्यत्वसिद्ध्यर्थ को वदेद्यो न तार्किक इति ।। तदविदितताकिकपरिस्पन्दस्य व्याहृतम्, इह त्वप्रयोजका हेतवो भवन्ति ।
यस्तनोच्चारितस्तस्माद्गाशब्दो ऽद्यापि वत्तते। गोशब्दज्ञानगम्यत्वाद्यथोक्तो ऽयैष गौरिति(५)। विज्ञानप्राह्यता नाम वस्तुस्वाभाव्यबन्धना । नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका । अप्रयोजकता चैवंप्रायाणां चैवमुच्यते ।
स्वयं चैते प्रयुज्यन्ते हेतुत्वेनेति किं त्विदम् ॥ (१) गौतमसूत्रम् अ २ आ. २ सू. १४ । (२) गोतमसूत्रम् । अ. २ आ. २ सू. १९ ।
(३) कूपपूजयत्नेन रूं तिरोधोयते सदा । भस्थानादित्ययं हेतुस्तकाने का. न्तिको भवेत् । झाकाराधोप्रबन्धो हि तवा तस्मिन्न तिष्ठति ॥३४॥ तिमहितान. भिव्यक्त शब्दबुद्धिप्रबन्धवत् । इतिश्लोकवार्तिके शब्दनित्यताप्रकरणे ।
(४) औद्योतकर न्यायवातिके अ. २ आ. २ स. १४ शब्द व्यभिचारवा. रणाय सत्यन्तम् । आत्मनिव्यभिचारवारणाय बाहोति ।
(५) श्लोकवातिके शब्दनित्यताप्रकरणे ४१६ श्लोक ।