________________
प्रमाण प्रकरणम्
एवं नित्यत्वे दुर्बलो युक्तिमार्गः तस्मान्मन्तव्यः कार्य एवेति शब्दः । वाचायुक्तत्वे वैदिको यो ऽनुवादः न्याये प्रयुक्त किं फलस्तत्प्रयोगः ॥
क्षणिभङ्गिभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम् | स्थूलवि
नाशभावादिति यदुक्तं तदपि नृत्तम् ।
२१३
सूक्ष्मविनाशापेक्षी नाशः स्थूल स्थिरस्य कुम्भादेः । प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः ॥ सत्वाद्यदि क्षणिकतां कथयेत्पुरो वा शब्दस्तदैष कथमक्षणिको ऽभिधेयः । युक्त्यन्तराद्यदि तदेव हि तहि चिन्त्यं किं प्रौढिवाद बहुमानपरिग्रहेण ॥ अलमतिविततोक्त्या त्यज्यतां नित्यवादः कृतक इति नयज्ञैर्गृह्यतामेष शब्दः । सति च कृतकभावे तस्य कर्त्ता पुराणः कविरविरलशक्तिर्युक्त एवेन्दुमौलिः ॥
इति श्रीजयन्त भट्टविरचितायां न्यायमञ्जर्यं तृतीयमाह्निकम् ।
वेदानां पौरुषेयत्वम् ।
एवं कृतकत्वे वर्णानां साधिते सति वर्णात्मनः पदात्प्रभृति सर्वत्र पुरुषस्य स्वातत्र्यं सिद्धं भवति ।
पदनित्यत्वपक्षे ऽपि वाक्ये तद्रचनात्मके । कर्तृत्वसम्भवात्पुंसा वेदः कथमकृत्रिमः ॥
तथा च वैदिक्यो रचनाः कर्तृपूर्विका रचनात्वा लौकिक रचनावत्, एष च पन्चलक्षणो हेतुः प्रयोजकश्चेति गमक एव न हेत्वाभासः, न तावदयमसिद्धा हेतुः 'शन्नो देवोरभीष्टये' इत्यादिषु वेदवाक्य सन्दर्भेषु पदरचनायाः स्वरक्रमादिविशेषवत्याः प्रत्यक्षत्वेन पक्षे हेतेोः वर्तमानत्वात्, नापि विरुद्धः कर्तृत्ववति सपक्षे कुमारसम्भवादौ रचनात्वस्य विद्यमानत्वात्, नाप्यनैकान्तिकः कर्तृरहितेषु गगनादिषु गगनकुसुमादिषु वा रचनाया अदृष्टत्वात् नापि कालात्ययापदिष्टः, प्रत्यक्षेणागमेन वा वेदे वक्त्रभाव - निश्चयामुत्पादात, नापि सत्प्रतिपचः प्रकरणचिन्ताहेतो: स्थाणुपुरुषविशेषानुप
"