________________
२१४
न्यायमञ्जयम्
लब्धेरिव हेतुत्वेनानभिधानात् नापि परमाण्वनित्यतायामिव मूर्त्तत्वमप्रयोज - कमिदं साधनं रचनाविशेषाणां कर्त्तृव्यापारसाध्यत्वावधारणात, यथा धूमस्य ज्वलनाधीन आत्मलाभो ज्ञप्तिस्तु धूमादमेः तथेह कधीना रचनानामभिनिर्वृत्तिः प्रतीतिस्तु ताभ्यः कर्त्तरिति, तस्मात्प्रयोजक एवायं हेतुः ।
वेदापौरुषेयत्वहेतुनिरासः
ननु सत्प्रतिपक्षत्वे विवदन्ते च तथा च मीमांसकै : प्रतिहेतुरिह गीयते । वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुना ऽध्ययनं यथा ॥ इति ।
नैतद्युक्तम्, एवंप्रायाणां प्रयोगाणासप्रयोजकत्वात्, न हि तच्छन्दवाच्यत्वकृतमनादित्वमुपपद्यते, अनैकान्तिकश्चायं हेतुर्भारते ऽप्येवमभिधातुं शक्यत्वात्, भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकं भारताध्ययनवाच्यत्वादिदानींतनभारतध्ययनवदिति,
ननु भारते कर्तृस्मृतिरविगीता विद्यते यद्येवं वेदे ऽपि प्रजापतिः कर्त्ता स्मर्यते एव, अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापतिस्मृतिः प्रजापतिना चत्वारो वेदा असृज्यन्त चत्वारो वर्णाश्चत्वार आश्रमा इति तत्र पाठादिति,
उच्यते हन्त तर्हि भारते ऽपि तत्र वचनमूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ।
यथा प्रजापतिर्वेदे तत्र तत्र प्रशस्यते । भारतेऽपि तथा व्यासस्तत्र तत्र प्रशस्यते ॥ अथ प्रणेता वेदस्य न दृष्टः केन चिल्क चित् । द्वैपायनोऽपि किं दृष्टो भवत्पितृपितामहैः ॥ सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते । प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते ॥
आः किमिति सदसद्विवेकविकलशाकटिकादिप्रवादविप्रलब्ध एवं भ्राम्यसि किल स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं तद्वचनप्रत्ययादनुष्ठीयते तद्यमियाननेकक्लेशवित्तव्ययादिनिर्वय वैदिकः कर्मकलाप एवमेव तदुपदेशिमाप्तमस्मृत्वैव क्रियते इति महान्प्रमादः, एवं चोच्चावचकविरचितजरत्पुस्तकलिखित काव्य वदस्मर्यमाणकर्तृकेण वेदेन व्यवहारानुपपत्तेरवश्यस्मरणीयस्तन्न कर्त्ता स्यात्, न च कदा चन वेदेषु व्यवहारविच्छेदः संभाव्यते येन तत्कृतं जरत्कूपारामादिष्विव तेषु कर्त्रस्मरणं स्यात्, तस्मादवश्यं स्मर्येत कर्त्ता न च संस्मर्यते स्मर्त्तु ं शक्यते वा, स्मृतिद्दि भवन्ती तदनुभवमूला भवति न च मूलेऽपि कर्त्रनुभवः कस्य चिज्जातः सर्गादेरभावात् भावे वा कर्त्तुरशरीरत्वेन दर्शनयोग्यत्वाभावात् ।