________________
२१५
प्रमाणमकरणम्
सशरीरत्वपक्षे वा पुरुषः को ऽपि तादृशः । तदानीं दृश्यमानो ऽपि वेदं कुर्वन्न दृश्यते ॥ अधीयमाने दृष्टे sस्मिँस्तदा संशेरते जनाः । किमेष रचयेद्वेदमुत वा ऽन्यकृतं पठेत् ॥ यत्कृतं वा पठेदेष तस्मिन्नपि हि संशयः । भङ्गया चेदमनादित्वमुन्मीलदिव दृश्यते ॥ असत्यादिप्रमाणे च कर्तृतानुभवं प्रति । स्मृतिः प्रबन्धसिद्धा ऽपि स्पृशत्यन्धपरम्पराम् ॥ योगिभिर्ग्रहणं कर्तुरित्येतदपि दुर्वचम् | कर्तृता हृदि दुर्बोधा कथं गृह्येत तैरपि ॥ योगिभिः सा गृहीतेति वयमेतन्न मन्महे । अमन्वानाश्च गच्छेम विस्रब्धास्तत्पथं कथम् ॥ वेदात्वबोधे तु स्पष्टमन्योन्यसंश्रयम् । ततो वेदप्रमाणत्वं वेदात्कर्तुःश्च निश्चयः ॥
तस्मात्पौर्वापर्य पर्यालेाचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेषा न पुनः परमार्थतः कश्चित्कं चिद्वेदस्य कर्त्तारं स्मरति, तस्मादकृतका वेदाः, अव श्यस्मरणीयस्यापि कर्तुरस्मरणात् न च व्यधिकरणेो हेतुरस्मर्यमाणकर्तृकत्वादित्येवं साधनप्रयेोगात्,
"
अत्रोच्यते, अपि तद्गुर्वध्ययनपूर्वकत्वं साधनमुपेक्षितं याज्ञिकैः अयमभिनव हेतुरस्मर्यमाणकर्तृकत्वादिति प्रयुक्तः, तस्मादस्तु नाम नैनान् हेत्वन्तरोपन्यासिनो निगृह्णीमः, अक्षुद्रकथेयं प्रस्तुता अयमपि त्वस्मर्यमाणकर्तृकत्वादिति हेतुः किं स्वतन्त्र एवाकर्तृकत्वसिद्धये प्रयोज्यते उतास्मदुप चरितरचनात्वप्रतिघातायेति, तत्र न तावदनुमानमनुमानान्तरपरिपन्थि प्रत्यक्षागमवदनुमानस्याप्यनुमानबाधकत्वानुपपत्तेः,
न
कथयितुमुचितम् हि तुल्यबलयेोरनुमानयोर्याध्यबाधकभावस्तुल्यबलत्वादेव, अतुल्यबलत्वे तु यत्कृतमन्यतरस्य दौर्बल्यं तत एव तदप्रामाण्यसिद्धेः किमनुमानबाधया, तद्विडम्बनार्थ तदभिधानमिति चेत् तदप्ययुक्तम्, एकत्र धर्मिणि युगपदितरेतरविरोधिधर्मद्वयप्रये। ज कहे तु द्रयोपनिपातायेोगात्, न हि द्यात्मकानि वस्तूनि भवितुमर्हन्ति इत्यवश्य मन्यतरस्तत्राप्रयोजक हेतुरप्रयोजकत्वादेव तस्यागमकत्वे किं विडम्बनार्थेन, हेत्वन्तरेण प्रयुक्तेन विरुद्धाव्यभिचार्यपि नाम न कश्चिद्धेत्वाभास इति वक्ष्यामः, प्रकरणसमो ऽपि न यः कश्चित्सत्प्रतिपक्षा हेतुरिष्यते ऽपि तु संशयबीजभूतो ऽन्यतरविशेषानुपलम्भे भ्रान्त्या हेतुत्वेन प्रयुज्यमानस्तथेोच्यते इति दर्शयिष्यामः, तस्मात्परोदीरितं हेतुं निराचिकीर्षिता