________________
२१६
न्यायमञ्जर्याम् वादिना तद्गतपक्षवृत्तितादिधर्मपरीक्षणे मनः खेदनीयम् , न हि प्रतिहेतुत्वा. न्वेषिणा वृथाऽटाट्या कर्त्तव्या ।
ननु कतरदनयोः साधनयोरप्रयोजकंरचनात्वादस्मर्यमाणकर्तृकत्वादिति च, उच्यते, रचनात्वमेव प्रयोजकं न हि पुरुषमन्तरेण क चिदक्षरविन्यासो द्रष्टः ।
भो भगवन्तः सभ्याः केदं दृष्टं व वा श्रुतं लोके । यद्वाक्येषु पदानां रचना नैसर्गिकी भवति ।। यदि स्वभाविकी वेदे पदार्ना रचना भवेत् ।
पटे हि हन्त तन्तूनां कथं नैसगिकी न सा ॥ शन्नो देवीरभिष्टये, नारायणं नमस्कृत्य, अस्त्युत्तरस्यां दिशि देवतात्मा, इति तुल्ये रचनात्वे क चित्कर्तृपूर्वकत्वमपरत्र तद्विपर्याय इति महान् व्यामोह एवं धमोपि कश्चिदग्निमान कश्चिदनग्निक इत्यपि स्यात् , किमिदानी कुमारसम्भवतुल्यो ऽसौ वेदः सम्पन्नः, अहो सर्वास्तिकधुर्येण वेदप्रामाण्यं साधितं नैयायिकेन, अलमुपहासेन रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन नान्यत् , न चेयतोपहसितुं युक्तम्, किमस्य शब्दत्वं सामान्यं शङ्खशब्दसाधारणं नास्ति सत्तासामान्यं वा सर्वसाधारणमिति ।
ननु याः कालिदासादिरचनाः कर्तृपूर्विकाः । ताभ्यो विलक्षणवेयं रचना भाति वैदिकी ।। इहाध्ययनवेलायां रूपादेव प्रतीयते । अकृत्रिमत्वं वेदस्य भेदैस्तैस्तैरनन्यगैः ।। नामाख्यातोपसर्गादिप्रयोगगतयो नवाः । स्तुतिनिन्दापुराकल्पपरकृत्यादिनीतयः ॥ शाखान्तरोक्तसापेक्षविक्षिप्तार्थोपवर्णनम् । इत्यादयो न दृश्यन्ते लौकिके सन्निबन्धने ।। तेनाध्येतृगणाः सर्वे रूपाद्वेदमकृत्रिमम । मन्यन्ते एव लेोके तु पीतं मीमांसकैर्यशः ।। वेदा न पठिता यैस्तु त्वादृशैः कुण्ठबुद्धिभिः ।
कार्यत्वं ब्रवते तेऽस्य रचनासाम्यमोहिताः॥ उच्यते, मीमांसका यशः पिबन्तु पयो वा पिबन्तु बुद्धिजाड्यापनयनाय ब्राह्मीघृतं वा पिबन्तु वेदस्तु पुरुषप्रणीत एव नात्र भ्रान्तिः।।
यथा घटादिसंस्थानाद्भिन्नमप्यचलादिषु ।
संस्थानं कर्तृमत्सिद्धं वेदे ऽपि रचना तथा । यच्चात्र किं चिद्वक्तव्यं तत्पूर्वमेव सविस्तरमुक्तम् , अपि च यद्विलक्षणेयं रचना तद्विलक्षण एव कर्ता ऽनुमीयतां न पुनस्तदपलापो युक्त इत्यप्युक्तम,
यक्तम,