________________
२१७
प्रमाणप्रकरणम् याश्चैता निर्विवादसिद्धकर्तृकाः कालिदासादिरचनाः चमत्कारिण्यः तासामन्योन्यविसदृशं रूपमुपलभ्यते एव ।।
अमृतेनेव संसिक्ताश्चन्दनेनेव चर्चिताः।।
चन्द्रांशुभिरिवोद्घृष्टाः कालिदासस्य सूक्तयः ॥ प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुलो बाणस्य वाचः, प्रतिकाव्यं च तानि तानि वैचित्र्याणि दृश्यन्ते एव, नामाख्यातादिवैचित्र्य. मात्रेण कत्रभावो वेदे रूपादेव प्रतीयते इति नूतनेयं वाचोयुक्तिः, अपि च यदि रूपे समाश्वसिति भवतो मनः तदादिमदर्थाभिधानमपि वेदस्य रूपं कथं न परीक्षसे 'बबरः प्रावाहणिरकामयत' 'कुसुरविन्दः औदालकिः अकामयत पुरूरवो मा स्पृया' इति, प्रतिसर्ग पुनस्तेषां भावादनादित्वमिति चेत्प्रतिसर्ग तहि वेदान्यत्वमपि भविष्यति यथोक्तम्-"प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते" इति
रूपादकृत्रिमत्वं च कल्पना कल्पितैव सा ।
आदिमद्वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटः ।। तेषामन्यथा व्याख्यानं तु व्याख्यानमेव पठन्त एव त्वध्येतारस्तत आदि. मतो ऽर्थान्बहूनववगच्छन्तीति नानादिर्वेदः, तस्मान्न रचनात्वमप्रयोजकम् । ____कञस्मरणमेव त्वप्रयोजकमसिद्धत्वात् , सिद्धमपि वा वेदे कञस्मरणमन्य. थासिद्धं वेदकरणकालस्यातिदवीयस्त्वात् , तत्प्रणेतुश्च पुंस सकलपुरुषविलक्षणत्वान्नियतशरीरपरिग्रहाभावादिदन्तयाऽस्य पाणिनिपिङ्गलादिवत्स्मरणं नास्ति न तु स नास्त्येवानुमानागमाभ्यां तदवगमात, कथं पक्षधर्मतया ग्रहीतुं शक्यते कर्चस्मरणं तद्वयतत्पुरुषसम्बन्धि व्यभिचरति सर्वपुरुषसम्बन्धि तु दुरवग. मम् , सर्वे पुमांसः कर्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान्न हि तव सकललोकहृदयानि प्रत्यक्षाणि सर्वज्ञत्वप्रसङ्गात् , न च यत्त्वं न जानासि तदन्यो ऽपि न जानातीति युक्तम अतिप्रसङ्गात् , तस्मादस्मर्यमाणकर्तृकत्वं दुर्बोधमेव, अपि च कर्तुरस्मरणे सति सुतरां वेदार्थानुष्ठानं प्रेक्षावतां शिथिलीभवेन्न ह्यकर्तृक एवोपदेशः सम्भवति सम्भवन्नपि वा प्रामाण्यनिश्चयनिमित्ताभावात्कथं विस्रम्भभूमिरसौ भवेत् , बाधकाभावमात्राच्च न प्रामाण्यनिश्वयो वचसामित्युक्तं प्राक् , तस्मादाप्तप्रत्ययादेव निविचिकित्सं वेदार्थानुष्ठानं सप्रतिष्ठानां सम्भवति नान्यथेति, तस्मान्न कञस्मरणस्य रचनात्वप्रतिपक्षत. योपन्यास उपपन्नः। __ नापि स्वतन्त्रमेवेदं कर्प्रभावसाधनं भवितुमर्हति अनुपलब्धिरियमनेन प्रकारेण किलोच्यते सा ऽनुपपन्ना मानेन कर्तुरुपलम्भात् , अनुमानेनापि यदुपलब्धं तदुपलब्धमेव भवति, ननु कत्रभावस्मरणबाधितत्वादनुमानमि
२८ न्या०