________________
११८
न्यायमचर्याम् दमयुक्तम्-इतरेतराश्रयप्रसङ्गात् अनुपलब्धौ सिद्धायामनुमाननिरासः अनुमाननिरासे च सत्यनुपलब्धिसिद्धिः, अनुमानप्रामाण्ये ऽपि समानो दोष इति चेद् न, तस्य प्रतिबन्धमहिन्ना प्रामाण्यसिद्धः, न हि तस्यानुपलब्धिसिद्धिनिरासापेक्ष प्रामाण्यम्।
ततत्स्याद् न वयं कर्बभावे प्रामाण्यं ब्रमः सकललोकपदार्थव्यवहारिणे हि मीमांसका., परं तु वेदस्य पौरुषेयतां ब्राणं प्रमाणं पृच्छामः, तच्चास्य नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठते इति, स्यादेतदेवं यद्यनु. मानं न स्यात् , उक्तं च रचनात्वादित्यनुमानम्। ___ यत्पुनरवादि वेदेषु पुरुषस्य कर्तृत्वमशक्यं ग्रहीतुमिति तदप्यसाधु, परोक्षस्य कुविन्दादेरपि अभिनवावर कपटादौ कार्ये कथं कर्तृता ऽवगम्यते ।
पटादिरचनां दृष्टा तस्य चेत्सा ऽनुमीयते । __ वेदे ऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम् ।। शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कतुमशक्यत्वात्कदा चिदीश्वरः शरीरमपि गृह्णीयादिति कल्प्यते नियतशरीरपरिग्रहाभावाच्च व्यासादिवदसौ न स्मयते ततश्च
अद्य सद्यः कविः काव्ये यथा कर्तेति मीयते । तथा तत्कालजै: पुम्भिः मोऽपि कति माम्यते ॥ यथा परकृताशङ्का तस्मिन् काव्ये व्यपेति ते । वेदे ऽप्यन्यकृताशङ्का तथा तेषां व्यपैष्यति । परोक्षमनुमानेन यच्च बुद्ध्यामहे वयम् । प्रत्यक्षं योगिनां तच्चत्युक्तं प्रत्यक्षलक्षणे ॥ प्रत्यक्षमनुमानं च तदेवं कर्तृतामितौ । मूलप्रमाणमस्तीति स्मृतौ निन्दापरम्परा ॥ मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः ।
यथोदितानुमानादिप्रमाणान्तरसम्भवात् ।। यदपीतरेतराश्रयमभाषि पुरुषोक्त वेदे प्रामाण्यं वेदप्रामाण्यात्पुरुषसिद्धिरिति तदपि न सम्यक् पूव परिहृतत्वात् , अनुमानात्प्रसिद्ध कर्तरि वेदवाक्यैः स्तत्प्रतोतेरुपाबलनमिष्यते न वागमैकशरण एव कवगमः, उक्तं च पूर्व मपि पृथिव्यादिना कार्येण कर्तुरनुमानम् ,
वेदकर्तुरेव पृथ्व्यादिकर्तृत्वम् । किं येनैव कत्रो पृथिव्यादि कार्य निर्मितं तेनैव वैदिक्यो रचना निर्मिता इति चेद् ओमित्युच्यते, किमत्र प्रमाणमिति चेत्
उच्यते तहि सर्वज्ञः स्रष्टुं प्रभवतीदृशम् । .