________________
प्रमाण प्रकरणम्
विचित्त्रं प्राणिभृत्कर्मफलभेोगाश्रयं जगत् ॥ तत्कर्मफलसम्बन्धविदा तदुपदेशिना । तेनैव वेदा रचिता इति नान्यस्य कल्पना || एकेनैव च सिद्धे ऽर्थे द्वितीयं कल्पयेम किम् । अनेक कल्पनाबीजं न हि किं चन विद्यते ॥ जगत्सर्गे तावदेक एवेश्वर इष्यते न द्वौ बहवो वा भिन्नाशयकल्पने एकत्र वैयर्थ्यादितरत्र व्यवहारवैशसप्रङ्गेन तत एकस्येश्वरत्वविघातात्, तथा हिकेश्वरवाद हि नातीव हृदयङ्गमः ।
ते चेत्सदृशसङ्कल्पाः को ऽयों बहुभिरीश्वरः ॥ सङ्कल्पयति यदेकः शुभमशुभं वा ऽपि सत्यसङ्कल्पः । तत्सिद्ध्यति तद्विभवादित्यपरस्तत्र कि कुर्यात् ॥ भिन्नाभिप्रायतायां तु कार्यविप्रतिषेधतः । नूनमेकः स्वसङ्कल्पविहत्या नीश्वरो भवेत् ॥ एकस्य किल सङ्कल्पो राजा ऽयं क्रियतामिति । हन्यतामिति चान्यस्य तौ समाविशतः कथम् ॥ राज्यसङ्कल्पसाफल्ये विहता वधकामना । तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः ॥ तेन चित्रजगत्कार्य संवादानुगुणाशयः । एक एवेश्वरः स्रष्टा जगतामिति साधितम् ॥
सर्ववेदानामेककर्तृकस्वम् ।
एवं जगत्सर्गवत्स एव वेदानामप्येकः प्रणेता भवितुमर्हति नानात्वकल्पनायां प्रमाणाभावात्कल्पनागौरवप्रसङ्गाच्च तेन यदुच्यते
नन्वेकः सर्वशाखानां कर्त्तेत्यवगतं कुतः ।
२१९
बहवो बहुभिग्रन्थाः कथं न रचिता इमे ॥
इति तत्परिहृतं भवति, अतश्च ककर्तृका वेदा यतः परस्परव्यतिषक्तार्थोपदेशिनेा दृश्यन्ते, एकमेव हि कर्म वेदचतुष्टयेोपदिष्टः पृथग्भूतैरप्येकार्थसमवायिभिरङ्गैरन्वितं प्रयुज्यते, तत्र हि हौत्रमृग्वेदेन यजुर्वेदेनाध्वर्यवम् श्रगात्रं सामवेदेन ब्रह्मत्वमथर्ववेदेन क्रियते, पैप्पलादादिशाखाभेदेोपदिष्टं च तत्तदङ्गजातं तत्र तत्रापेक्ष्यते, तत्र सर्वशाखा प्रत्ययमेकं कर्मेत्याहुः, एतच्चादूरएवाग्रे निर्णेष्यते ।
एकाभिप्रायबद्धत्वं तेन सर्वत्र गभ्यते । भवेद्भिन्नाशयानां हि कथमेकार्थ मीलनम् ॥