________________
२२०
न्यायमञ्जर्याम
काव्यसमस्यापूरणे का वार्त्तेति चेत्
तत्रापि प्रथमस्यैव कवेस्तद्वस्तुदर्शनात् । तदभिप्रायवेदी तु सेोऽन्यस्तमनुवर्त्तते ॥ अन्यथा ऽनन्वितं काव्यं स्याद्विश्ववसुकाव्यवत् । अन्वितत्वे तु सा नूनमाद्यस्यैव कवेर्मतिः ॥ इहाप्येकायाभिज्ञद्वितीयेश्वरकल्पने । एकाभिप्रायतैव स्यात्किं स्यात्तत्कल्पने फलम् ॥
तस्मादेक एव कर्त्ता सर्वशाखानां काठकादिव्यपदेशस्तु प्रकृष्टाध्ययननिबन्धना भविष्यतीति भवद्भिरप्युक्तम् अपि च यथा तरोर्विक्षिप्ताः शाखा भवन्ति न च कृत्स्नं पुष्पफलपत्रमेकस्यां शाखायां सन्निहितं भवति किं तु कस्यां चित्कस्यां चित्, एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विक्षिप्ताश्च । तासां च वृक्षशाखानामेकस्माज्जन्म बीजतः । तथैव सर्वशाखानामेकस्मात्पुरुषोत्तमात् ॥ कर्त्ता य एव जगतामखिलात्मवृत्तिकर्मप्रपञ्चपरिपाकविचित्रताज्ञः । विश्वात्मना तदुपदेशपराः प्रणीतास्तेनैव वेदरचना इति युक्तमेतत् ॥ आप्तं तमेव भगवन्तमनादिमीशमाश्रित्य विश्वसिति वेदवचःसु लेोकः । तेषामकर्तृकतया न हि कश्चिदेव विस्रम्भमेति मतिमानिति वरितं प्राक् ॥ एवं च पदवाक्यरचनादौ तावद्वेदेषु पुरुषापेक्षित्वमुपपादितम् ।
शब्दार्थं सम्बन्धनिरूणम्
यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते चित्रभानोरिव दहनशक्तिः शब्दस्य नैसर्गिकी वाचकशक्तिः व्युत्पत्तिस्तु वृद्धेभ्य एव व्यवहरमाणेभ्य उपलभ्यते इति किमत्र पुरुषः करिष्यतीति तद्भ्यघटमानम् - पुरुषपरिघटित - समय सम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुत्पत्तेः ।
ननु नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति कस्येदं पुरुष/पेक्षत्वं तन्निरपेक्षत्वं वा चिन्त्यते, न हि शब्दार्थयोः कुण्डबदरयोरिव संयोगस्वभावः तन्तुपटयोरिव समवायात्मा वा सम्बन्धः प्रत्यक्षमुपलभ्यते, त न्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति तदुक्तं मुखे शब्दमुपलभामहे भूमावमिति, नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुख