SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् स्य पाटनपूरणानुपलम्भात्, न च शब्ददेशे अर्थः सम्भवति न चार्थदेशे शब्दः स्थानकरणप्रयत्नानां तद्धेतूनां घटाद्यर्थदेशेऽनुपलम्भात् , व्यापकत्वं तु शब्दस्य प्रतिषिद्धमेव___ उच्यते, न संश्लेषलक्षणः शब्दार्थसम्बन्धो ऽस्माभिरभ्युपगम्यते, तत् किं कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः, एते ऽपि नतराम, न तर्हि तस्य कश्चिदर्थेन सम्बन्धः, न नास्ति शब्दस्यार्थेन सम्बन्धः प्रत्ययनियमहेतुत्वाद् धूमादिवत् , तत किं शब्दार्थयोरविनाभावः सम्बन्धः सो ऽपि नास्ति, एवं हि शब्दो ऽनुमानमेव स्यात्, कस्तहि समय इति ब्रमः, को ऽयं समयो नाम, अभिधानाभिधेयनियमनियोग: समय उच्यते, यद्येवं किमनाशङ्कनीयसंश्लेषपरिचोदनेन तदूषणेन च, उच्यते, शब्दार्थाभेदवादिनां हि वैयाकरणानामेष संश्लेष उपपत्तिमान् समयो ऽप्ययमनुपपन्न एव, स हि पुरुषकृत सङ्केतो न च पुरुषेच्छया वस्तुनियमो ऽवकल्पते तदिच्छाया अव्या. हतप्रसरत्वात, अर्थों ऽपि किमिति वाचको न भवति, न चैवमस्ति न हि दहा नमनिच्छन्नपि पुरुषो धूमान्न तं प्रत्येति जलं वा तत इच्छन्नपि प्रतिपद्यते, तत्र यथा धूमाग्न्योनैसर्गिक एवाविनाभावो नाम सम्बन्धः ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोस्सासिद्धिक एव शक्त्यात्मा सम्बन्धः तद्व्यु. त्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम्, स्वाभाविके सम्बन्धे सति दीपादि. वत् कि तव्युत्पत्त्यपेक्षणेनेति चेद् न शब्दस्य ज्ञापकत्वात् , ज्ञापकस्य धूमादेरेतद्रूपं यत्सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम् , तद्योग्यतादयस्तु प्रत्यक्षसा. मनयन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति, शक्तिस्तु नैसर्गिकी यथा रूपप्रका. शिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने, तस्मान न समयमात्रादर्थप्रतिपत्तिः। अपि चामिधानाभिधेयनियमनियोगरूपः समयो ज्ञानमेव न ततेोऽर्थान्तरं ज्ञानं चात्मनि वर्तते न च शब्दार्थयारिति न तयोः सम्बन्धः स्यात् , किं च समयः क्रियमाणः प्रत्युच्चारणं वा क्रियते प्रतिपुरुषं सर्गादौ वा सकृदीश्वरेणेति, प्रत्युच्चारणं प्राक्तन एव क्रियते नूतनो वा, नवस्य तावक्रियमाणस्य कथमर्थप्रत्यायनसामथ्यमवगम्यते तदवगतो वा कि तत्करणेन, पूर्वकृतस्य तदा कृत. त्वादेव पुनः करणमनुपपन्नम, एकस्य वस्तुनो ज्ञप्तिरसकृदावर्तते नोत्पत्तिः. प्रतिपुरुषमपि सम्बन्धी मिन्नो ऽभिन्नो वा क्रियते, भेदपक्षे कथमेकार्थसब्ज्ञानं गोशब्दस्य सास्नादिमानर्थः केसरादिमानश्वशब्दस्येति, अभेदे ऽपि तथैव कृतस्य करणायोगाज शानमेव सम्बन्धस्य न करणम् , सर्गादावपि सकृत्सम्बन्ध. करणमयुक्तं तथाविधकालासम्भवादेव न हि शब्दार्थव्यवहाररहितः कश्चित्काल उपपद्यते, तस्मानित्यस्यव सम्बन्धस्य लोकतो व्युत्पत्ति: न पुनः करणम् , व्यु. त्पत्तिपक्षं च न करणपक्षामिहिता दोषाः स्पृशन्ति प्रत्यक्षसिद्धत्वात, प्रत्यक्षं
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy