SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ न्यायमञ्जयोम् हीदमुपलभ्यते वृद्धानां हि स्वाथै व्यवहरमाणानामुपशृण्वन्तो बालास्ततस्ततः शब्दात्तं तमर्थ प्रतियन्ति ते ऽपि वृद्धा यदा बाला आसंस्तदा ऽन्येभ्यो वृद्ध. भ्यस्तथैव प्रतिपन्नवन्तस्ते ऽप्यन्येभ्य इति नास्त्यादिस्संसारस्येति । अपि च समयमात्रशरण: शक्तिशून्यः शब्दः कथमक्षिनिकोचहस्तसंज्ञादिभ्यो भिद्येत, स हि तदानीं कशाङ्कशप्रतोदाभिघातस्थानीय एव भवेत्तथा च शब्दादर्थ प्रतिपद्यामहे इति लौकिको व्यपदेशा बाध्येत, समयादर्थ प्रतिपद्यामहे इति स्यात्, समयपक्षे च यदृच्छाशब्दतुल्यत्वं सर्वशब्दानां प्राप्नोति तेन गवा. श्वादीनां शब्दानां नियतविषयत्वं न स्यात् । यत्पुनरुच्यते जातिविशेषे चानियमात्समयरूपः सम्बन्ध इति, जातिशब्देनात्र देशो विवक्षितः, किल क चिद्देशविशषे कश्चिच्छब्दो देशान्तरप्राप्तप्रसि. द्धमर्थमुत्सृज्य ततो ऽर्थान्तरे वत्तते, यथा चौरशब्दस्तस्करवचन श्रोदने दाक्षिणात्यः प्रयुज्यते, एतच्च समयपक्षे युज्यते, नित्ये तु सम्बन्धे कथं तदर्थः व्यभिचार इति, तदप्ययुक्तम्, सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क चिद्देशे केन चिदर्थेन व्यवहारः, अत एव चानवगतसम्बन्धे श्रुते सति सन्देहो भवति कमर्थ प्रत्याययितुमनेनायं शब्दः प्रयुक्तः स्यादिति, असत्यां हि शक्ती अकृतसमये निरवलम्बना प्रत्यायकत्वाशङ्केति, अथ वा ऽऽर्यदेशप्रसिद्ध एव शब्दानामर्थः इतरस्तु म्लेच्छ जनसम्मतो नादरणीय एव, तस्मात्समयपक्षस्यातिदोबल्यादकृत्रिम एव शब्दार्थयोः सम्बन्ध इति न तत्र पुरुषस्य प्रभविष्णुता शब्दार्थसम्बन्धनित्यतानिराकरणम् अत्रोच्यते न नित्यः सम्बन्ध उपपद्यते, शब्दवदर्थवच्च तृतीयस्य तस्य प्रत्यक्षादिना प्रमाणेनाप्रतीयमानत्वात् , ननुशक्तिरूपः सम्बन्ध इत्युक्त शक्तिश्च तदाश्रितेति कथं धर्म्यन्तरवत्पृथक्तया प्रतीयते, नैतत्साम्प्रतम् , स्वरूपसहकारिव्यतिरिक्तायाः शक्तेः सूक्ष्मायाः प्रागेव विस्तरतः प्रतिक्षिप्तत्वात् , न च शक्तिः प्रत्यक्षगम्या द्रव्यस्वरूपवदनुपलम्भात, नानुमेया कार्याणामन्यथा ऽपि घटमानत्वात् , कल्पयित्वा च शक्तिमपरिहार्यः समयः, समयमन्तरेणाथप्रतिपत्तेरसिद्धः, सिद्ध च समये तत एवाथसिद्धः किं नित्यसम्बन्धाश्रयणेन । ___ यत्ततं समयस्य पुरुषेच्छाधीनत्वात्तस्याश्चाव्याहतप्रसरत्वाद्वाच्यवाचकव्यत्ययः स्यादिति तदयुक्तम् , शक्त्यभावे शब्दस्यैव वाचकत्वे योग्यत्वात, का पुनः शक्स्यभावे योग्यता ऽस्येति चेद् यो ऽयं गत्वादिजातियोगः क्रमविशे. षोपकृतः गत्वौत्वादिसामान्यसम्बन्धी हि यस्य भवति स वाचकत्वे योग्य इति इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाद्यविशेषे ऽपि वीरणत्वादिसामान्य
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy