________________
प्रमाणप्रकरणम्
२२३
वतां च पटनिष्पत्तौ न च तत्र शक्तिरस्तीत्युक्तम् , न च कारणे कार्य सदिति सांख्यरिव भवद्भिरिष्यते तस्यामसत्यामपि शक्तो सामान्यविशेषसम्ब. न्धस्य नियामकत्वान्न वाच्यवाचकयोर्व्यत्यय इति न शक्तिरूपः शब्दार्थयोः सम्बन्धः, न च तयोरविनाभावे धूमाग्न्योरिव सम्बन्धः, तत्र हि सम्बन्धः प्रतीयमान एव प्रतीयते धूमो ऽग्नि विना न भवतीति इह पुनरयमस्मात्प्रती. यते इति एतावदेव व्युत्पत्तिपर्यवसानम, अत एवावगतिपूविकंवावतिरित्यनुमानाच्छब्दस्य भेद उक्त , प्रकाशकत्वमपि शब्दस्य समयप्रसादोपनतमेव न स्वाभाविकम, सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तादन्यतो वा यतः कुत्त श्चिदभिनवादपि दीगादिव शादर्थप्रतीतिः स्यात् , ___ यत्त नैसर्गिके ऽपि प्रकाशकन्वे शब्दस्य धूमादेरिव ज्ञापकत्वात्संबन्धग्रह णसापेक्षत्वमुक्तं स एष विषम उपन्यासः, न हि धूमादेः प्रत्यायकत्वं स्वाभाविकम अनलाविनाभाविन्वं तु तम्य निजं बलं तत्र चागृहीते तस्मिन्प्रतीतिरेव न जायते इति युक्तं तद्ग्रहणं प्रतीत्यर्थम, इह तु प्रतीतिशक्तिरेव स्वाभाविकी भवता ऽभ्युपगम्गते सा चेत्स्वाभाविकी कि व्युत्पत्त्यपेक्षणेनेति, यच्चोच्यते प्रत्यायक इति प्रत्ययं दृष्ट्वा ऽवग छामो न प्रथमश्रवण इति यावत्कृत्वः श्रुतेनेयं संज्ञा ऽय संज्ञीत्यवगम्यते तावत्कृत्वः श्रुतादर्थावगम इति सो ऽयं समयोपयोग एव कथितो भवति, संज्ञासंज्ञिसम्बन्धी हि समय एवाच्यते तदुपयोगमन्तरेण प्रत्यायकत्वानवगमान्न स्वाभाविकी शक्तिः । ___ यत्त्वभ्यधायि समयस्य ज्ञानात्मकत्वादात्मनि वृत्तिः न शब्दार्थयोरित्ये. तदप्यचतुरश्रम, तदाश्रयत्वाभावेऽपि ज्ञानस्य तद्विषयत्वोपपत्तेः,
यदप्यमाणि समयमात्रशरणे सृणिप्रतोदनादननिर्विशेषे शब्दे शब्दादर्थ प्रतिपद्यामहे इति व्यपदेशो न स्यादिति तदपि न किं चित, नैसर्गिकशक्तिपक्ष ऽपि शक्तेरथे प्रतिपद्यामहे न धूमादिति स्यात् , तदङ्गत्वादविनाभावादेन तथा व्यपदेश इति चेत् तदितरत्रापि समानम् ।
धूमे हि व्याप्तिपूर्वत्वं शब्दे समयपूर्वता ।
नानयोस्तदपेक्षायां करणत्वं विहन्यते ॥ अपि च, लौकिको व्यपदेशः समयपक्षसातितामिव भजते देवदत्तेनोक्तम् अमुतः शब्दादमुमथै प्रतिपद्यस्वेति एवं हि व्यपदिशति लाकः, तस्मात्समय एव, अतश्चैवं देशान्तरे सङ्केतवशेन तत एव शब्दादर्थान्तरप्रतिपत्तिः ।
नन्वत्रोक्तं सर्वशब्दाः सर्वार्थप्रत्यायनयुक्ता इति केन चिदर्थेन क चिद्व्यवहार इति तदेतदयुक्तम , शक्तीनां भेदाभेदविकल्पानुपपत्तः, न शब्दस्वरूपाद्भिन्नाः शक्तयः तथा ऽनवभासात् , अव्यतिरेके चैकस्माच्छब्दादनन्यत्वात्परस्परमव्यतिरेकस्तासां स्यात् , न च मिन्नकार्यानुमेया भिन्नाः शक्तयः कार्यभेदस्यान्यथा