SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२४ न्यायमअर्याम् ऽप्युपपत्तेः, सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः, समयोपयोगी नियामक इति चेत् स एवास्तु किं शक्तिभिः । __यदप्यगादि शब्दश्रणे सति सर्वार्थविषयसन्देहदर्शनात्सर्वत्र तस्य शक्तिः कल्प्यते इति तदप्यसारम् , न हि शक्तिकृतः सन्देहः किं तु गत्वादिवर्णसामान्यनिबन्धनः तथा च गत्वादिजातिमतां वर्णानामर्थे वाचकत्वमवगतम् , अमी तजातियोगिनो वर्णाः कस्यार्थस्य वाचकाः स्युरिति भवति सन्देहः । यत्पुनरवादि स एव शब्दस्यार्थों यौनमार्याः प्रयुब्जते न म्लेच्छजनप्रसिद्ध इति तदेतस्कथमिव शपथमन्तरेण प्रतिपद्यमहि, न हि म्लेच्छ. देशे ऽपि तदर्थप्रत्ययो न जायते बाध्यते वा सन्दिग्धो वेति कथं न शब्दार्थः, आर्यप्रसिद्धिर्बाधिकेति चेद् आर्यप्रसिद्धरपि म्लेच्छ प्रसिद्धिः कथं न बाधिका, अक्षादिवञ्च विकल्पमानार्थोपपत्तेः व्यवस्थितविषय एव विकल्पो भविष्यति, पिकनेमतामरसादिशब्दानां च भवद्भिः म्लेच्छप्रयोगादर्थनिश्चय आश्रित एव, अवेष्टयधिकरणे(१) च राज्यशब्दमान्ध्रप्रसिद्ध ऽर्थ वर्णितवन्तो भवन्त इत्यलमवान्तरचिन्तनेन, तस्मात्समय एव सम्बन्ध इति युक्तम् , तदुक्तं जातिविशेषे चानियमादिति । ___ अथ यदुक्तं समयः प्रत्युच्चारणं प्रतिपुरुषं च तत्करणम अनभ्युपगत. मेव दूषितम् , सर्गादौ सकृदेव समयकरणमिति न: पक्षः, अत एव न सर्वशब्दानां यहच्छातुल्यत्वम् , केषां चिदेव शब्दानामम्मदादिभिरद्यत्वे सङ्केतकरणात्त एव यदृच्छाशब्दा उच्यन्ते, सर्गादिश्च समर्थित एव ईश्वर. सिद्धावस्यविकल्पमनुमानमुपन्यस्तम् , एष एव चावयाविशेषो यदेष शब्दा. र्थसम्बन्धव्यवहारस्तवानादिर्मम तु जगत्सर्गात्प्रभृति प्रवृत्त इति, अद्यत्वे तु शब्दार्थसम्बन्धव्युत्पत्तौ तुल्य एवावयाः पन्थाः, तत्रापि त्वयं विशेषो यत्तव शक्तिपर्यन्ता व्युत्पत्तिमम तु तद्वमिति, तथा चेयमियती व्युत्पत्तिः लोके दृश्यते यदयमस्य वाच्यो ऽयमस्य वाचक इति न पुन: शक्तिपर्यन्ता व्युत्पत्तिरस्ति, तथा हि यत्र शृङ्गग्राहिकया शब्दमर्थ च निर्दिश्य सम्बन्धः क्रियते तत्रेयन्तमेवैनं क्रियमाणं पश्यामः, अयमस्य वाच्यो ऽयमस्य वाचक इति, यत्रापि च वृद्धभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते तत्रापीयदेवासो जानाति अयमर्थः अमुतः शब्दादनेन प्रतिपन्न इति न त्वन्यास्य का चिच्छक्तिरस्तीति, इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तरस्याश्चापरिहार्यत्वादधिककल्पना. बीजाभावाच न नित्यः शब्दार्थसम्बन्धः, अत एव च सम्बन्धस्त्रिप्रमाणक (१) शाबरभाष्ये अ० २ पा० ३ सू०३
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy