________________
प्रमाणप्रकरणम्
२२५
इति(१) यत्त्वयोच्यते तदस्माभिर्न मृष्यते, 'शब्दवृद्धाभिधेयांश्च प्रत्यक्षेपात्र पश्यति' इति सत्यं "श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया" इत्येतदपि सत्यम् , "अ. न्यथाऽनुपपत्त्या तु बुध्येच्छक्ति द्वयात्मिकाम्" इत्येतत्त न सत्यम् , अन्यथा ऽप्युपपत्तरित्युक्तत्वात् , तस्माद् द्विप्रमाणकः सम्बन्धनिश्चयो न त्रिप्रमाणकः, तदेवं शब्दस्य नैसर्गिकशक्त्यात्मकसम्बन्धाभावादीश्वरविरचितसमयनिबन्धन: शब्दार्थव्यवहारो नानादिः । । - नन्वीश्वरोऽपि सम्बन्धं कुर्वन्नवश्यं केन चिच्छब्देन करोति तस्य केन कृतः सम्बन्धः, शब्दान्तरेण चेत्तस्यापि केन कृतस्तस्यापि केनेति न कश्चिदवधिः स्तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्धव्यवहारसिद्धाः केचिदकृतसम्बन्धा एव शब्दा अभ्युपगन्तव्या अस्ति चेद्व्यवहारसिद्धिः किमीश्वरेण किं वा तत्कृतेन समयेनेत्यनाद्यपक्ष एव श्रेयान, उच्यते
अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः । अस्मदादिषु दोषो ऽयमीश्वरे तु न युज्यते ।। नानाकमफलस्थानमिच्छयैवेदृशं जगत् ।
स्त्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत् ।। इच्छामात्रेण पृथिव्यादेरियतः कार्यस्य करणमस्मदादीनां यन्मनोरथपद. वीमपि नाधिरोहति तदपि यतः सम्पद्यते तस्य कियानयं प्रयासः, तदत्रेश्वरसद्भावे परं विप्रतिपत्तयः, तस्मिंस्तु सिद्धे क एवं विकल्पानामवसरः, उक्तं च तत्सिद्धौ निरपवादमनुमानम , वयं तु न कर्तार एव सम्बन्धस्य यत एवमनुयुज्येमहि
अङ्गुल्यग्रेण निर्दिश्य कं चिदर्थ पुरः स्थितम् ।
व्युत्पादयन्तो दृश्यन्ते वालानस्मद्विधा अपि ।। .. तस्मादीश्वरविरचितसम्बन्धाधिगमोपायभूतबृद्धव्यवहारलब्धतव्युत्पत्तिसापेक्षः शब्दो ऽर्थमवगमयतीति सिद्धम , न च नित्यसम्बन्धाभावे ऽपि शब्द. स्यार्थास्पर्शित्वं समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धरित्युक्तत्वाद् इत्यलं विस्तरेण।
तस्मात्पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता ।
पुरुषस्योपपन्नेति वेदानां तत्प्रणीतता ॥ (१) न ह्यषौ ज्ञातसामों विनान्यैर्व्यवहर्तृभिः । शब्दवृद्धाभिधेयांश्च प्रत्यक्षे. णान पश्यति ॥ १४० ॥ श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया। अन्यथानुपपत्त्या च बुद्धथेच्छक्ति द्वयाश्रिताम् ।। १४१॥ अर्थापत्त्यावबुध्यन्ते सम्बन्धं त्रिप्रामाणकम् ।। इति सम्बन्धाक्षेपरिहारे श्लोकवार्तिके।
२९ न्या०