________________
२२६
न्यायमचर्याम् आप्पोक्ततया वेदप्रामाण्यावगमनिरूपणम् तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणं न नित्यत्वात् , नन्वाप्तोक्तत्वस्य हेतोः पक्षधर्मत्वं कथमवगम्यते न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्त. प्रणीतत्वमवगम्यते श्रवणयुगलकरणलब्धजन्मनि प्रत्यये वेदाख्यस्य शब्दराशेरेव प्रतिभासात् , न चोदात्तादिवद्वर्णधर्मत्वेनाप्तोक्तत्वं गृह्यते, नाप्यनुमानमस्मिन्नर्थ सम्भवति लिङ्गाभावात , प्रामाण्ये हि वेदस्याप्तोक्तत्वं लिङ्गम् आप्तोक्तत्वानुमितौ तु न लिङ्गान्तरमुपलभामहे इति कुतस्त्यः पक्षधर्मत्वनिश्चयः, उच्यते, अलं सरस्वतीक्षोदेन उक्त एव पक्षधर्मत्वनिश्चयोपायः, तथाहि
शब्दस्य साधितं तावदनित्यत्वं सविस्तरम् । रचनाः कर्तृमत्यश्च रचनात्वादिति स्थितम् ।। कर्ता सर्वस्य सर्वज्ञः पुरुषो ऽस्तीति साधितम् । कायेंणानुगुणं कल्प्यं निमित्तमिति च स्थितम् ।। प्रत्यक्षादिविसंवादो वेदे परिहरिष्यते । व्याघातपौनरुक्तयादिदोषश्च वचनान्तरे ।। विध्यर्थवादमन्त्राणामुपयोगश्च वक्ष्यते। न मात्रामात्रमप्यस्ति वेदे किं चिदपार्थकम् ।। शब्दब्रह्मविवादिकल्पनाश्च पुरोदिताः ।
सर्वाः परिहरिष्यन्ते कार्यत्वस्य विरोधिकाः ।। इत्थं च स्थिते किमन्यदवशिष्टं वेदेष्वाप्तोततानिश्चयस्य, सो ऽयं सकल. शास्त्रार्थस्थितो सत्यां पक्षधर्मत्वनिश्चयो हेतोराप्तोक्तत्वस्य गीयते। ___ यत्तु प्रत्यक्षमनुमानं वा तन्निश्चयानिमित्तमिति विकल्पितं तत्र प्रत्यक्ष. मास्ताम् , अनुमानानि तु यानि रचनात्वादीन्युक्तानि यानि च परदर्शनीषि वक्ष्यन्ते तानि सवोण्याप्तोत्ततायाः पक्षधर्मतासिद्धोपयिकानीत्यलं विस्तरेण ।
व्याप्तिः पुनरस्य हेतोरायुर्वदादिवाक्येषु निश्चीयते पिप्पलीपटोलमूलादेरप्यौषधस्येत्थमुपयोगादिदमभिमतमासाद्यते अस्य च क्षीरतक्रादिविरोध्यशनस्य परि. हारादिदमनिष्टमुपशाम्यतीत्यादिष्वायुर्वेदशास्त्रेषु प्रत्यक्षेण तस्यार्थस्य तथा निश्चयादाविसंवादित्वं नाम प्रामाण्यं प्रतिपन्नं तच्चेदमाप्तवादप्रयुक्तम् , यतो यत्राप्तवादत्वं तत्र प्रामाण्यमिति व्याप्तिर्गृह्यते, तथा मन्त्राणां प्रयोगे वृश्चिकमुजगदष्टस्य भक्षितविषस्य वा निर्विषत्वम् अपस्मारपिशाचरूपिकागृहीतस्य तदुन्मोचनम् अतिरभसोजिहानेषु दुष्टमेघेषु सत्यरक्षणमित्येवमुपलब्धम् , अतस्तेषां विष. भूताशनिशमनकुशलानामाप्ता उपदेष्टार इति तत्रापि तथैव व्याप्तिनिश्चयः ।
नन्वायुर्वेदादो प्रामाण्यं प्रत्यक्षादिसंवादात्प्रतिपन्नं नाप्तप्रामाण्यात् , अतः