________________
प्रमाणमकरणम्
5
कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम्, नैतदेवम् प्रत्यक्षादिसंवादात्तन्निश्चीयतां नाम प्रामाण्यम उत्थितं तु तदाप्तोक्तत्वात्, प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादात्प्रामाण्यस्य ज्ञप्तिरुत्पत्तिस्तु गुणवत्कारककृतेत्युक्तम्, नद्यादिवाक्यानि च विप्रलम्भक पुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते, तेनाप्तप्रणीतत्वमेव तेषां प्रामाण्य कारणं कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात्, निश्चयापायस्तु प्रत्यक्षं भवतु न तु तत्कृतमेव प्रामाण्यम् अतो युक्तमाप्तोक्तताया आयुर्वेदा. दौ व्याप्तिग्रहणम
"
नन्वेवमपि न युक्तम् आप्तोक्तत्वस्य तत्र परिच्छेत्तुमशक्यत्वात, अन्वयव्यतिरेक मूलमेवायुर्वेदवाक्यानां प्रामाण्यं नाप्तकृतम्, अन्वयव्यतिरेकौ च यावत्येव दृश्येते तावत्येवार्थे प्रामाण्यं यथा हरीतक्यादिवाक्यार्थे, यत्र तु तयोदर्शनं तत्राप्रामाण्यम् यथा सोमराज्युपयोगे समाः सहस्रं जीव्यते, आप्ते तु कल्प्यमाने ऽर्धजरतीयं स्यात्, अर्थ तस्याप्तत्वमर्धे च कथमनाप्तत्वमिति, तदिदमनुपपन्नम्, अन्वयव्यतिरेकयो ग्रहीतुमशक्यत्वात्, तौ हि स्वात्मनि वा ग्रहीतुं शक्येते व्यक्त्यन्तरे वा व्यक्तयन्तरे ऽपि सर्वत्र क चिदेव वा व्यक्तिविशेषे सर्वथा संकटो ऽयं पन्थाः, व्याधीनां तन्निदानानां तदुपचयानां तदुपशमोपायानामौषधानां तत्संयोगवियोगविशेषाणां तत्परिमाणानां तद्रसवीर्यविपाकानां देशकालपुरुषदशाभेदेन शक्तिभेदस्यकेन जन्मना प्रहीतुमशक्यत्वात्, जन्मान्तरानुभूतानां च भावानामस्मरणात् ।
२२७
9
जनो ऽनन्तस्तावन्निरवधिरिह व्याधिनिवहो न संख्यातुं शक्या बहुगुणरसद्रव्यगतयः । विचित्राः संयोगाः परिणतिरपूर्वति च कुत: चिकित्सायाः पारं तरति युगल क्षैरपि नरः ॥ यदेव द्रव्यमेकस्य धातोर्भवति शान्तये । योगान्तरात्तदेवास्य पुनः कोपाय कल्पते ॥ या द्रव्यशक्तिरेकत्र पुंसि नासौ नरान्तरे । हरीतक्या Sपि नोद्भूतवातकुष्टे विरेच्यते ॥ शरद्युद्रिक्तपित्तस्य ज्वराय दधि कल्पते । तदेव भुक्तं वर्षासु र हन्ति दशान्तरे || न चोपलक्षणं किं चिदस्ति तच्छतिवेदने । येनैकत्र गृहीता ऽसौ सर्वत्रावगता भवेत् । यो वा ज्ञातुं प्रभवति पुरुषः तत्सामर्थ्यं निरवधिविषयम् ।
स्यात्सर्वज्ञः स इति न विमतिस्तस्मिन्कार्या स्ववचनकथितैः ॥
अथोच्यते अनादिवैषा चिकित्सकस्मृतिः व्याकरणादिस्मृतिवत् संक्षेप