________________
२२८
न्यायमअर्याम् विस्तरविवक्षयैव चरकादयः कर्तारः न तु ते सर्वदर्शिनः, न च स्मृ. तावन्धपरम्परादोषः समूलत्वात् , यथा व्याकरणस्मृतेः शिष्टप्रयोगो मूल. मेवमिहान्वयव्यतिरेको शिष्टविरोधे सति यथा मूलविरोधिनी पाणिन्यादिस्मृतिरप्रमाणं तथा चाहुरिह न भवत्यनभिधानादिति एवं वैद्यस्मृतिर. यन्वयव्यतिरेकविरुद्धा न प्रमाणमिति, तदेतदयुक्तम् , अन्वयतिरेकयोयथोक्तनयेन परिच्छेदासम्भवेन तन्मूलत्वानुपपत्तेः, यदि ह्यन्वयव्यतिरेकाभ्यामशेषः द्रव्यशक्तीनिश्चित्य चरकादिभिर्विरचितं शास्त्रमितीदृशमन्वयव्यतिरेकित्वमु. च्यते तदपाकृतम् , अद्यत्वे यावन्तावन्वयव्यतिरेको वयमुपलब्धुं शक्नुमः ता. वद्भ्यां ताभ्यामेकदेशसंवादात्प्रामाण्यकल्पनात् तत्र प्रवर्तनं न तु तो तावन्तौ शास्त्रस्य मूलं भवितुमहतः सर्वैरस्मदादिभिस्तादृशशास्त्रप्रणयनप्रसङ्गात् , अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम् , चरकादिकतृस्मृतेः कालिदासादि. स्मृतिवदविगीतत्वात् , न च चिकित्सास्मरणप्रबन्ध एवमनादिः तथात्वे ऽन्ध. परम्पराकारणानवधारणात् , न च तदुक्तं तन्मूलं भवितुमर्हति व्युदस्तत्वात् , तस्मात्सर्वज्ञप्रणीत एवायुर्वेदः।
ननु अविदुषामुपदेशो नावकल्पते इति विद्वांसः चरकादयः कल्प्यन्तां ते तु प्रत्यक्षेणैव सर्व विदितवन्त इत्यत्र किं मानम् , उच्यते, अन्वयव्यतिरेकयोनिरासान्नानुमानस्यैष विषयः, वेदमूलत्वमपि मन्वादिस्मृति वदयक्तं कल्पयितुं कर्तसामान्यासम्भवादिति वर्णयिष्यामः, पुरुषान्तरोपदेशपूर्वकत्वे चरकेणैव किमपराद्धम, उपमानमनाशङ्कनीयमेवास्मिन्नरों, अर्थापत्तिस्तु न प्रमाणान्तरम् , अप्रामाण्यं तु ना स्त बहुकृत्वः संवाददर्शनात् , अतः परिशेषात्प्रत्यक्षीकृतदेशकालपुरुषदशाभेदानुसारिसमस्तव्यस्तपदार्थसाथशक्तिनिश्चयाश्चरकादय इति युक्तं कल्पयितुम , यद्येवं कथं तहि सोमराज्या. दिवाक्येषु व्यभिचारः व्यभिचारे चार्धजरतीयमित्यक्तम् , नैष दोषः, कर्मकर्तृसाधनवैगुण्यादेषु व्यभिचारो भविष्यति, वैदिकेषु च कर्मसु मीमांसकस्य समानो दोषः।
कारीर्यादी का ते वार्ता यस्यां न स्यादिष्टौ वृष्टिः । वैगुण्यं चेत्कादीनामत्राप्येवं शक्यं वक्तम् ।। यदि विधुरमभुक्तं कर्म शास्त्रीयमन्यत् फलविघटनहेतुः कल्प्यते सा ऽपि तुल्यः । क्व चिदथ फलसंपद् दृश्यते तत्प्रयोगे तदिह दृढशरीराः सन्ति दीर्घायुषश्च ।।
आयुर्वेदश्च तस्मादाप्तकृतो नान्यमूल इति सिद्धम् । एवं फलवेदादौ प्रकाशमाप्तप्रणीतत्वम् ।।