________________
प्रमाणप्रकरणम्
२२९
तस्मादाप्तोक्तत्वस्य सिद्धमायुर्वेदादौ व्याप्तिग्रहणम् , व्याप्तिप्रदर्शनायैव सूत्रकृता "स द्विविधो दृष्टादृष्टार्थत्वात्"(१) इत्युक्तम् , दृष्टार्थशब्दे गृहीताविना. भावमाप्तोक्तत्वम् अदृष्टार्थे ऽपि प्रामाण्यं साधयतीति, अत एवोक्तम् , “मन्त्रायर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यात्" इति(२)।
नन्वत्रापि न वैद्यकं विरचयन्दृष्टो मुनिः सर्ववित्तद्व्याप्तिग्रहणं जने यदि वृथा ऽऽयर्वेदसङ्कीर्तनम् । सत्यं किं तु दृढा तथा ऽपि चरकाद्याप्तस्मृतिवैद्यके नासौ चार्यनिबन्धनेति कथिता तस्यह दृष्टान्तता ॥ इत्यायर्वेदवाक्यप्रभृतिषु भवत्ति व्याप्तिराप्तोक्ततायाः पूर्वोक्तन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः । न प्रत्यक्षागमाभ्यामपहृतविषया नानुमानान्तरेण व्याधता वेति सैषा भजति गमकतां पञ्चरूपोपपत्तेः ॥ अनपेक्षतया न वेदवाचां घटते निष्प्रतिमः प्रमाणभावः । क गिरामयथार्थतानिवृत्तिः पुरुषप्रत्ययमन्तरेण दृष्टा ।।
तत्प्रत्ययाबहुतरद्रविणव्ययादिसाध्येषु कर्मसु तपःसु च वैदिकेषु । युक्तं प्रवर्त्तनमबाधनकेन नैव।
तत्सिद्धिरित्यलमसम्मत एष मार्गः ॥ तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणमिति सिद्धम् ,
मीमांस आभिमतोदषामाण्यावगमोपायनिरूपणम् - अन्ये त्वन्यथा वेदप्रामाण्यं वर्णयन्ति, तस्य हि प्रामाण्ये ऽभ्युपगतपरलोको ऽनभ्युपगतपरलोको वा परो विप्रतिपद्यते, तत्रानभ्युपगतपरलोकं प्रति तावदात्मनित्यतादिन्यायपूर्वकं परलोकसमर्थनमेव विधेयम , परलोकवादिनां तु मते यदेतत्सुखिदुःख्यादिभेदेन जगतो वैचित्र्यं दृश्यते तदवश्यं कर्मवै. चित्र्यनिबन्धनमेव, कर्माणि चाननुष्ठितानि नात्मानं लभन्ते, अलब्धात्मनां च नभःकुसुमनिभानां कुतो विचित्रसुखदुःखादिफलसाधनत्वम् , तस्मादनुष्ठान. मेषामेषितव्यम् , अनुष्ठानं च नाविदितस्वरूपाणां कर्मणामुपपन्नम् अजानन्पु. रुषस्तपस्वी किमनुतिष्ठेत् , तदवश्यं ज्ञात्वा ऽनुष्ठेयानि कर्माणि तदिदानी तेषां परिज्ञाने को ऽभ्युपाय:, न प्रत्यक्षमस्मदादीनां स्वर्गाद्यदृष्टपुरुषार्थसाधनानि कर्माणि दर्शयितुं प्रभवति ।।
(१) गौतमसूत्रम् अ० १ आ० १ सू० ८ । (२) गौतमसूत्रम् अ० २ आ० २ स०१७ ।