________________
न्यायमञ्जयाम्
नाप्यनुमानम् अन्वयव्यतिरेकाभ्यां तृप्तिभोजनयोरिव स्वर्गयागयोः साध्य. साधनसम्बन्धानवधारणात, जगद्वैचित्र्यान्यथाऽनुपपत्त्या तु विचित्रं कारणमात्रमनुमीयते न च तावता ऽनुष्ठानसिद्धिः, उक्तं चः
अधर्मे धर्मरूपे वा ऽप्यविभक्त फलं प्रति ।
किमप्यस्तीति विज्ञानं नराणां कोपयुज्यते इति । उपमानं त्वत्र शङ्कयमानमपि न शोभते, नापि परस्परमुपदिशन्तो लौकिकाः कर्माणि परलोकफलानि जानीयुरिति वक्तुं युक्तम् , अज्ञात्वा उपपादयतामातत्वायोगात् , ज्ञानं तु लौकिकानां दुघर्ट प्रमाणाभावाद् इत्युक्तत्वात् , एवमेव हि पुरुषोपदेशपरम्पराकल्पनायामन्धपरम्परान्यायः स्यात् , तस्मादवश्यमभ्यपगतपरलेोकः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात्कर्मावबोधो ऽभ्युपग. न्तव्यः, शास्त्रं च वेदा एवेति सिद्धं तत्प्रामाण्यम् ।
ननु लोकप्रसिद्धित एव धर्माधर्मसाधनानि कर्माणि ज्ञास्यन्ते किं शास्त्रेण, उपकारापकारो हि धर्माधर्मयोर्लक्षणमिति प्रसिद्धमेवैतत, तथा ऽऽह व्यासः
इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनमिति ॥ नैतद्यक्त लोकप्रसिद्धनिर्मूलायाः प्रमाणत्वानुपपत्तेः, लोकप्रसिद्धिर्नाम लो. किकानामविच्छिन्ना स्मृतिः, स्मृतिश्च प्रभवन्ती प्रमाणान्तरमूला भवति न स्वतन्त्रेत्यवश्यमस्या मूलमन्वेषणीयम् , तच्च प्रत्यक्षादि नोपपद्यते इति नूनं शास्त्रमूलैव लोकप्रसिद्धिः, विरुद्धानेकप्रकारत्वाञ्च लोकप्रसिद्धेनं तस्यां स्वतन्त्रा. यां समाश्वसिति लोकः, न चोपकारकमात्रलक्षणावेव धर्माधर्मों वक्तुं यज्येते जपशीधुपानादौ तदभावात, गुरुदारगमनादौ च विपर्ययादित्यवश्यं शास्त्रशर. णावेव तावेषितव्यो ।
अपि चेदमिष्टिमन्त्रादिकमेव फलम् अयमस्मिन्नधिकृत इति इयमितिकर्तः व्यता एष देशः इमे ऋत्विजः इत्यादि किं लोकप्रसिद्धरधिगन्तुं शक्यते, तस्मा. दवश्यं शास्त्राधीन एव विशिष्टकर्मावबोध एषितव्यः, शास्त्रं च वेद एवेत्यक्तम् , अतस्तस्य निर्विवादसिद्धमेव प्रामाण्यमिति ।।
एवं तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात्, वेदस्यानादित्वं कर्मज्ञानानादित्वात् , यलश्च मीमांसकवर्त्मनैव प्रमाणता सिद्धयति नाप्तवादात् , तस्माघथोदाहृत एव मार्गः प्रमाणतायामनुवर्तनीयः, अथ वा
वयमपि न विशिष्मो ऽनादिसंसारपक्षं युगपदखिलसर्गध्वंसवादे तु भेदः ।। अकथि च रचनानां कार्यता तेन सर्गाप्रभृति भगवतेदं वेदशास्त्रं प्रणीतम् ।।