________________
प्रमाणपकरणम्
२३१
अनादिरेवेश्वरकर्तृको ऽपि सदैव सर्गप्रलयप्रबन्धः । सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्यो ऽपि जनस्य सिध्येत् ।। अन्यत्वे किं प्रमाणं ननु तव सुमते किं तदैक्यप्रमाणं ध्वस्तं तावत्समस्तं भुवनमिति तदा वेदनाशो ऽप्यवश्यम् । एकस्त्वोशो ऽवशिष्टः स च रचयति वा प्राक्तनं संस्मरेद्वा वेदे स्वातन्त्र्यमस्मानियतमुभयथा ऽप्यस्ति चन्द्रार्धमौलेः ।। एकस्य तस्य मनसि प्रतिभासमानो । वेदस्तदा हि कृतकान्न विशिष्यते ऽसौ । प्रत्यक्षसर्वविषयस्य तु नेश्वरस्य युक्ता स्मृतिः करणमेव ततो ऽनवद्यम् ।। तेनाप्तनिर्मिततयैव निरत्ययार्थसंप्रत्ययोपजननाय जनस्य वेदे । शास्त्रं सुविस्तरमपास्तकुतकमूलमोहप्रपञ्चमकरोन्मुनिरक्षपादः ॥
अथर्ववेदप्रमाण्याक्षेपः । अत्र कश्चिदाह, युक्तमितरेतरव्यतिषक्तार्थोपदेशित्वेनैककर्तृकत्वानुमानद्वा. रकं त्रिवेद्याः प्रामाण्यम् , अथर्ववेदस्य तु त्रय्यानातधर्मोपयोगानुपलब्धेस्त्रयीबा. ह्यत्वेन तत्समानयोगक्षेमत्वम् , अनपेक्षत्वलक्षणप्रामाण्यपक्षे ऽपि विक्षिप्तशाखा. न्तरोपदिष्टविशिष्टज्योतिष्टोमाधनेककर्मानुप्रविष्टहौत्राध्वर्यवादिव्यापारव्यतिषङ्गदर्शनात्तदा त्रय्येव यथा प्रमाणभावभागिनी भवितुमहति न तथा पृथग्व्यवहारा ऽऽथर्वणश्रुतिः, तथा च लोके चतस्र इमा विद्याः प्राणिनामनुग्रहाय प्र. वृत्ता आन्वीक्षकी त्रयी वार्ता दण्डनीतिरिति प्रसिद्धिः।
श्रुतिस्मृती अपि तदनुगुणार्थ एव दृश्येते, श्रुतिस्तावद् (१)"ऋग्भिः प्रातदिवि देव ईयते यजुर्वेदेन तिष्ठति मध्ये ऽहः सामवेदेनास्तमेति वैदेरशून्यखिभिः रेति सूर्य" इति, तथा “प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तपो ऽतप्यत स तपस्तप्त्वेमांस्त्री लोकानसृजत पृथिवीमन्तरिक्षं दिवमिति ताल्लोकानभ्यतपत्ते. भ्यस्त्रीणि ज्योतीष्यजायन्त अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादिव
आदित्य इति तानि ज्योतीष्यभ्यतपत्तेभ्यस्त्रयो वेदा अजायन्त अग्नेग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद" (२)इति, तथा सैषा विद्या त्रयी तपतीति(३),
(१) तैत्तिरीयब्राह्मणे अन्तिमप्रपाठके अ०१८ । (२) शतपथब्राह्मणम् । काण्ड ११ प्रपाठक० ४ ब्राह्मणम् ११ । (३) नारायणोपनिषदि अ० १४ ।
.