________________
२३२
न्यायमञ्जर्याम्
स्मृतिरपि मानवी प्रतिवेदं द्वादशवार्षिकब्रह्मचर्योपदेशिनी दृश्यते षट्त्रिंशद्वाषिकं चर्य गुरौ चैवेदिकं व्रतमिति, श्राद्धप्रकरणे ऽपि (१) । यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् | शाखान्तगमथाध्वर्युं छन्दोगं वा समाप्तिगमिति ॥
त्रिवेदपारगाव श्राद्धभुजेो ब्राह्मणान् दर्शयति नाथर्ववेदाध्यायिनः प्रत्युत निषेधः क चिदुपदिश्यते तस्मादाथर्वणं न प्रवृञ् च्यादिति ।
अथर्ववेदप्रामाण्याक्षेपपरिहारः
एवमाक्षेपे सति केचिदाचक्षते -
यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः । अर्थान्तरे प्रमाणत्वं केनास्याः प्रतिहन्यते ॥ शान्तिपुष्ट्यभिचारार्था एकब्रह्मर्त्विगाश्रिताः । क्रियास्तया प्रमीयन्ते त्र्य्येवात्मीयगोचर इति ॥
एवं तत्तु सर्व न साध्वभिधोयते, तथा हि तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति (२) य एष वेदप्रामाण्याधिगतौ जैमिनिना निरदेशि पन्थाः यो वा Sक्षपादेन कणादेन प्रकटितः तद्वचनादान्नायस्य प्रामाण्यमिति मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रमाण्यमाप्तप्रामाण्यादिति स चतुर्ष्वपि वेदेषु तुल्यः, तत्र विशेषतुषो ऽपि न कश्चिदस्ति प्रयत्नेनान्विष्यमाणः प्राप्यते, न हि मीमांसकपक्षे एवं वक्तुं श क्यते त्रय्येवानादिमती नाथर्वणश्रुतिस्तस्यां कर्तृम्मरणसम्भवादिति, नापि नैयायिकादिपक्षे एवं शक्यम् आप्तप्रणीतास्त्रयो वेदाः चतुर्थस्तु नाप्तप्रणीत इति, तेन प्रामाण्याधिगमोपायाविशेषात्समानयोगक्षेमतया चत्वारो ऽपि वेदाः प्रमाणम् ।
व्यवहारोऽपि सर्वेषां सारेतरविचारचतुरचेतसां चतुर्भिरपि वैदैश्चतुर्णां वर्णानामाश्रमाणां चतसृषु दिक्षु चतुरधिमेखलायामवनौ प्रसिद्ध इति को य मत्रान्यथात्वभ्रमः, श्रुतिस्मृतिमूलश्चार्यावर्त्तनिवासिनां भवति व्यवहारः, ते च श्रुतिस्मृती चतुरोऽपि वेदान् समानकक्षानभिवदतः, ऋग्यजुः सामवेदेष्वपि अथर्ववेदाशंशीनि भूयांसि वचांसि भवन्ति, तद्यथा शतपथे अथ तृतीये ऽहनी - त्युपक्रमस्याश्वमेधे परिपुवाख्याने सो ऽयमाथर्वणो वेद' (३) इति श्रूयते, छान्दोग्योपनिषदि ( ४ ) च "ऋग्वेद यजुर्वेदः सामवेद आथर्वणः चतुर्थ" इति पठ्यते ।
१) मनुस्मृतौ अ० २ श्लो० १४५ ।
(२) जैमिनिसूत्रम् अ० १ ० १ सू० ५ । (३) प्रकरणम् १३ प्रपाठक ३ कण्डिका ७ । ( ४ ) सप्तमप्रपाठके ६ खण्डे ।