________________
प्रमाण प्रकरणम्
२३३
नन्वितिहासपुराणानि पञ्चम इति तत्र पठ्यते एव, किं चातः, किमियता Sseणचतुर्थी न भवति वेदः, चतुर्थशब्दोपादानादितिहासादितुल्यो ऽसौ वेदसमानकक्ष इति चेत् केयं कल्पना, चतुर्थशब्देापादानादप्राधान्ये त्रयो वेदा असृज्यन्तेत्यादौ त्रित्वसंख्येोपादानात्ते ऽपि न प्रधानतामधिगच्छेयुः, इतिहासादिभिर्वा सह परिगणनमप्राधान्य कारणं यदुच्यते तदपि सर्ववेदसाधारणमिति यत्किंचिदेतत्, तथा शताध्ययने ऽपि ऋचा वै ब्रह्मणः प्राणा इत्यभ्युपक्रम्य आथर्वणो वै ब्रह्मणः समान इति पठ्यते, तथा ये ऽस्यादन्चो रश्मयस्ता एवास्यादीच्या मधुनाडयेो ऽथर्वाङ्गिरस एव मधुकृत इति ( १ ), तथा तैत्तिरीये (२) तस्माद्वा एतस्मात्प्राणमयादन्यान्तर आत्मा मनामय इति प्रस्तुत्य तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्माऽथर्वाङ्गिरसः पुच्छं प्रतिष्ठेति पठ्यते, तथान्यत्र ( ३ ) ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषां साम्नामुत्तराम् अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते इति, शतपथे ब्रह्मयज्ञविधिप्रक्रमे “मध्यमे पयआहुतयेो वा एता देवानां यहच इत्युपक्रम्य मेाहुतयो वा एता देवानां यदथर्वाङ्गिरसः स्म य एवं विद्वानथर्वाङ्गिरसेो ऽहरहः स्वाध्यायमधीते मंद आहुतिभिरेव देवान् स तर्पयति त एनं तृप्तास्तर्पयन्ति” (४) इति, मन्त्रा अपि तदर्थप्रकाशनपरा अनुश्रूयन्ते, (५) 'त्वा
पुष्कराभ्यथर्वा निरमन्थत" इत्यादयो न चैषामथर्वा नाम कश्चिदृषिरित्येवंप्रकारं व्याख्यानं युक्तम् अन्यत्राप्यसमाश्वासप्रसङ्गात्, इत्येवं जातीय कास्तावदुदाहृताः श्रुतिवाचः, स्मृतिवाक्यानि खल्वपि मनुस्तावत्, “श्रुतीरथर्वाङ्गिरसी: कुर्यादित्यभिचारयन्” इति श्रुतिशब्देन त्रयीवद् व्यवहरति याज्ञवल्क्यः चतुदशविद्यास्थानानि गणयन् -
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिता ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेति ॥
चतुर एव वेदानावेदयते, नान्यथा हि चतुर्दशसंख्या पूर्यते, स्मृत्यन्तरे च स्पष्टमेवेोक्तम्
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः | पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दशेति ॥
( १ ) छान्दोग्योपनिषदि प्र० ३ खण्ड ३ । ( २ ) ब्रह्मोपनिषदि अ० ३ ।
( ३ ) तैत्तिरीयब्राह्मणे अन्तिमप्रपारके अ० १० ।
( ४ ) काण्ड० ११ प्र० ३ ब्राह्मणम् ८ ।
( १ ) तैत्तिरीयसंहिता श्र० प्र०५ श्र० ११ । ३० न्या०