________________
न्यायमअर्या
..अन्यत्राप्युक्तम्, पुराणं धर्मशास्त्रं मीमांसा न्यायश्चत्वारो वेदाः षडङ्गानी. ति चतुर्दश विद्यास्थानानीति, शातातपो ऽयाह---
ऋक्सामयजुरङ्गानामथर्वाङ्गिरसामपि ।
अणेरप्यस्य विज्ञानाद्यो ऽनूचानस्स नो महानिति ॥ तथा ऽन्यत्र चत्वारश्चतुणों वेदानां पारगा धर्मज्ञाः परिषदित्य क्तम् , शङ्ख. लिखितौ च ऋग्यजःसामाथर्वविदः पडङ्गविद्धर्मविद्वाक्यविद् नैयायिका नैष्ठिको ब्रह्मचारी पञ्चाग्निरिति दशावरा परिषदित्यूचतुः, प्राचेतसे चत्वारो वेदविदा धर्मशास्त्रविदिति एञ्चावरा परिषदित्यक्तम् , तथा च पङ्क्तिपावनप्रस्तावे चतु
दः षडङ्गवित् ज्येष्ठसामगो ऽथर्वाङ्गिरसेो ऽप्येते पक्तिपावना गण्यन्ते, तद. यमेवमादिवेदचतुष्टयप्रतिष्ठाप्रगुण एव प्राचुर्येण धर्मशास्त्रकाराणां व्यवहारः, अन्ये ऽपि शास्त्रकारास्तथैव व्यवहरन्तो दृश्यन्ते, यथा च महभाष्यकारो भगः वान् पतञ्जलिरथर्ववेदमेव प्रथममुदाहृतवान शन्नो देवीरभिष्टये इति, मीमांसा. भाष्यकारेणापि वेदाधिकरणे(१) काठकं कालापकं मौद्गलं पैप्पलादकमिति यजुर्वेदादिकवदथर्ववेदे ऽपि पैप्पलादकमुदाज, सर्वशाखाधिकरणे(२) ऽपि वे. दान्तरशाखान्तरवन्मौदकपैप्पलादकाख्ये अथर्वशाखे अध्युदाहृत्य विचारः कृतः तथा च प्रथमयज्ञो नाम चतुर्पु वेदेष न कश्चिदस्तीत्यधिकरणान्त एव लिखि. तम् , एवं श्रुतिस्मृतिशिष्टाचारव्यवहारविदामन विप्रतिपत्तिसम्भावनैव नास्ति । ____ आह, न ब्रूमः अथर्ववेदो न प्रमाणमिति किं तु त्रयीबाह्य इति, उच्यते, त्रयीयमथववेदबायेव न केवलमेवं त्रय्यामपि परस्परबाह्यत्वमस्त्ये. व ऋक्सामबाह्यानि यजूंषि यजुःसामबाह्या ऋचः ऋग्यजुर्बाद्यानि सामानीति कियानयं दोषः सर्वभावानामितरेतरसांकर्यरहितत्वात् , ये हि शब्दात्मानो ग्रन्थसंदर्भस्वभात्रा ये च तदभिधेया अर्थस्वभावास्ते सर्वे ऽन्योन्यसंमिश्रितात्मान एव न च परेणात्मानममिश्रयन्तो ऽपि ते स्वरूपमपि हारयन्तीति ।। __ अथोच्यते नेदृशं त्रयीबाह्यत्वमथर्ववेदे विवक्षितम् अपि तु यदेष न त्रयी. प्रत्ययं कोपदिशति न तत्सम्बद्धं किं चिदिति तदस्य त्रयीवाह्यत्वमिति , एतद. दपि न साधूपदिष्टम , इष्टिपश्वे काहाहीनसनादिकारणां तत्रोपदेशदर्शनातू , स. वशाखाप्रत्ययमेकं कर्मेति न्यायात् , त्रय्युपदिष्टे ऽपि कर्मणि सम्बन्धसर्वशाखा. प्रत्ययमेव नाथर्वशाखाप्रत्ययम् यतः सोमयागादिकर्मणामृग्नेदेन हौत्रं यजुर्वेदेनाध्वर्यवं सामवेदेनौद्गात्रं क्रियते नाथनेदेन किं चिदिति, तदयक्तम, अथ. ववेदेन ब्रह्मत्वस्य करणात् तथा च गोपयत्रायणम् , प्रजापतिः सोमेन यक्ष्यमाणे वेदानुवाच कं वो होतारं वृणीयमिति प्रक्रम्य तम्माग्विदमेव होतारं
(१) शाबरभाष्ये श्र० १ पा० १ सू० २७ । (२) शाबरभाष्ये श्र० २ पा० ४ सू० ८ ।