________________
प्रमाणप्रकरणम्
२३५ वृणीष्व स हि होत्रं वेद यजुर्विदमेवाध्वर्य वृणीष्व स हि आध्वर्यवं वेद सामविदमेवोद्गातारं वृणीष्व स हि औद्गानं वेद अथर्वाङ्गिरोविदमेव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेदेति एवमभिधाय पुनराह अथ चेन्नैवम्विधं होतारमध्वयुमुद्गातारं ब्रह्माणं वा वृणुते पुरस्तादेव वैषां यज्ञो रिष्यतीति तस्मादग्विदमेव होतारं कुर्याद् यजुर्विदमेवाध्वर्यु सासविदर्भवोद्गातारम् अथर्वाङ्गिरसो विदमेव ब्रह्माणमिति, तथा यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तद्थर्वणां तेजसाप्याययतीति अथानन्ते भृग्वाङ्गिरोभ्यः सोमः पातव्य इति । ।
अथर्ववेदस्य च्यात्मकत्वम्नन्वेताः श्रुतीरथर्वाण एवाधीयते नान्ये त्रयीविदः ते त्वेनं पठन्ति यहचा होत्रं क्रियते यजुषा ऽऽध्वर्यवं साम्ना औद्गात्रम् अथ केन ब्रह्मत्वं क्रियते इति त्रय्या विद्ययेति यादिति, तथा च यहचैव हौत्रमकुर्वत यजुषा ऽऽध्वर्यवं साम्नौद्गात्रं यदेव त्रय्य विद्यायै शुक्रं तेन बह्मत्वमिति । ____ उच्यते, वयमप्येवमादीनि वाक्यानि न नाधीमहि किं त्वेषामयमेवार्थोऽथवॉगिरोविदेव ब्रह्मति, कथम् , यतो न त्रयी नाम किमपि वस्त्वन्तरम् , अपि तु त्रयाणां वेदानां समाहार इति, समाहारश्च समाह्रियमाणनिष्ठो भवति, समाह्रियमाणाश्च ऋग्वेदादयस्त्रयो हौत्रादिपरत्वे चरितार्था न पुनस्तत्र भेदमर्हन्ति, एकैकशः चरितार्थानां समुदायो ऽपि चरितार्थ एव, समुदायबुद्धौ हि विभज्यमानायां समुदायिन एव प्रस्फुरन्ति नावयविवदर्थान्तरं ते चान्यत्र व्यापृताः, किं नु खलु ऋग्वेदादीनां ब्रह्मत्वं कुर्वतामतिभारो भवति, न बमः अतिभार इति किं तु त्र्यात्मकत्वेन ब्रह्मत्वकर्तव्यतोपदिश्यते च्यात्मकश्चान्यतमो ऽपि तेषां न भवति वेदः अथर्ववेदस्तु त्र्यात्मक एव, तत्र हि ऋचा यजूंषि सामानि इति त्रीण्यपि सन्ति तेन ब्रह्मत्वं क्रियमाणं त्रय्या कृतं भवति ।
ननु यस्त्रीन्वेदानधीते तेन चेद् ब्रह्मत्वं क्रियेत तत्किं तया न कृतं भवति, बाढमित्यच्यते सो ऽपि एकस्मै वा कामायान्ये यज्ञक्रतवस्समात्रियन्ते सर्वेभ्यो ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासाविति श्रुतावपि(१) योगसिद्ध्यधिकरणन्यायेनान्यतममेव बुद्धावादाय विद्ध्यान्न समुदायं बुद्धावारोपयितुं शक्नुयादित्येके. नैतत्कृतं भवति न त्रय्येति ।
नन्वन्ये ऽपि च्यात्मका वेदाः यद्येवं सुतरामथर्ववेदो न पृथक करणीयः सर्वषां रूपाविशेषात् , तेषां पृथक्प्रतिष्ठैः स्वः स्वैऋगादिभिरेव व्यपदेश इति न ते समुदायशब्दव्यपदेश्याः, यत्तु वाक्यान्तरे त्रय्ये विद्यायै शुक्रं तेन ब्रह्मत्वमिति तत्रेयं चतुर्थी षष्ठयाः स्थाने प्रयुक्ता शुक्रमिति सारमाचक्षते तेन त्रयी.
(१) जैमिनिसूत्रम् । अ० ४ पा० ३ सू० २५-२८ ।