________________
२३६
न्यायमञ्जयम्
विद्यायाः सारेण ब्रह्मत्वं क्रियते इत्युक्तं भवति, न च त्रय्येव त्रय्याः शुक्रं भवति न चात्यन्तं ततो ऽर्थान्तरमेव तेनेदमथर्ववेदात्मकमेव त्रय्याः शुक्रं, शुक्रमिति च गुह्यमाहुः, अथर्वशब्दो ऽपि रहस्यवचनो यज्ञाथर्वाणं चैकस्या इष्टय इति, तेन त्रयीशुक्ररूपेणाथर्ववेदेन ब्रह्मत्वमितीत्थमथर्ववेदस्य न त्रयीबाह्यत्वमि त्थं सर्वशाखाप्रत्ययमेकं कर्मेति न सर्वशब्दः सङ्कोचितो भवति, अत एव ब्रह्मवेदा ऽथर्ववेद इति पूर्वोत्तर ब्राह्मणे पठ्यते ऋग्वेदो यजुर्वेदः सामवेदः ब्रह्मवेद इति, तथा च काठकशताध्ययने ब्राह्मणे ब्रह्मौदने श्रूयते ब्रह्मवादिनों वदन्ति पुरा वा श्रद्दालकिरारुणिरुवाच ब्रह्मणे त्वा प्रारणाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामीत्युपक्रम्य आथर्वणो वै ब्रह्मणः समानेा ऽथर्वणमेव तज्जुष्टं निर्वपति चतुः शरावे। भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूलं वै ब्रह्मगो वेदाः वेदानामेतन्मूलं यदृत्विजः प्राश्नन्ति तद् ब्रह्मौदनस्य ब्रह्मौदनत्वमिति, तथा सामवेदे पृष्ठचस्य चतुर्थेहन्याभवे पवमाने आथर्वणे साम्नौगात्रं यत्तद्विधा श्रूयते चतुर्विधमाथर्वणं भवति चतूरात्रस्य वृत्त्यै चतुष्पदामानुष्टुभा ऽनुभवेतच्चतुर्थ भेषजं वाथर्वाणं तद्धि भैषज्यमेव तत्करोत्याथर्वणानि यागभेषजानीत्येतदालम्बनेयं स्तुतिरत एव प्रागुक्तं यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणा तेजसाप्याययतीति तस्मादाथर्वण एव ब्रह्मेति, एतच्च शास्त्रान्तरे विस्तरेणाभियुक्तैर्य क्तिभिरुपपादितमिति नेहात्यन्ताय प्रतायते ।
"
यत्तु नाथर्वणेन प्रवृञ् च्यादिति तत्कल्पसूत्रवाक्यत्वाद्वेदविरुद्ध मित्यनाहतम् अथापि श्रतमिदं वाक्यं तदापि प्रकरणाधीतं चेत्तत्रव क चित्कर्मणि निवेदयते, अनारभ्यवादपते ऽपि पूर्वोक्तवाक्यविसदृशार्थत्वादथर्ववेदस्य च त्रयीबाह्यत्वेन सम्पर्कपरिहारार्हत्वान्नियतविषयमेव व्याख्यास्यते ।
यदप्युच्यते उच्चैर्ऋचा क्रियते उच्चैस्साम्ने पांशु यजुषेतिवदथर्वधर्मोऽपि न कश्चिदाम्नात इति तदप्यसारम्, मन्त्रधर्मो ह्ययमुपदिश्यते न वेदधर्मः । मन्त्रब्राह्मणसमुदायस्वभावा हि चत्वार इमे वेदप्रन्था मन्त्रास्तु ते गद्यपद्य भेदाद् द्विधैव गद्यबन्धेो यजुरुच्यते पद्यबन्ध ऋगिति गोतिनिबन्धनं तु भेदान्तरं सामेति, अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्य ( १ ) तेषामृग्यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुः शब्द, इत्थमेव तेषां त्रैविध्यमुपपादितम्, तेषामेव चायमुच्चैरादिधर्मो न वेदशब्दवाच्यानां मन्त्रब्राह्मणसमुदायात्मनां प्रन्थानाम, अथर्ववेदेपीयं त्रिविधैव मन्त्रजातिरिति तत्रापीदं धर्म
(१) प्रकरणादीनामिति मूले पाठः ।
( २ ) जैमिनिसूत्रम् । अ० २ ० १ सू० ३५-३६-३७ ।