________________
प्रमाणप्रकरणम्
२३७
जातमुपदिष्टं भवति, मन्त्रविभागकृत एवायं त्रयीव्यपदेश इति, तच्च सैषा त्रयी विद्या तपतीत्याद्यपि न विरोल्स्यते, एवं ऋग्यजुःसामसमुदायात्मकमन्त्रोपबन्धात् त्रय्यन्तर्गतश्च अथर्ववेदः पृथगव्यवस्थितग्रन्थसंदर्भस्वभावत्वाच्च भिन्न इति स्थितम् ।
। अन्ये पुनः ऋक्प्रचुरत्वात्प्रविरलयजुर्वाक्यत्वादगीयमानसाममन्त्रतावशा. च ऋग्वेदमेवाथर्ववेदमाचक्षते अयमपि पक्षो ऽस्तु न कश्चिद्विरोधः।
यत्पुनरभिधीयते वेदशब्दस्त्रयाणामेव वाचको न चतुर्थस्येति सोयमत्युत्कटो द्वेषः, वृद्धव्यवहारो ह्यत्र प्रमाणम् , वेदो ऽयं बाह्मणोऽयमिति तत्र तत्र वेदशब्दे उच्चारिते चत्वारो ऽपि प्रतीयन्ते, वेदो मया ऽधीत इति वदन्तं पृच्छन्ति व्यवहर्तारः कतमस्त्वया ऽधीतो वेद इति स आह अथर्ववेद इति न तमेवमाक्षिपन्ति नासौ वेदो यस्त्वया पठित इति, सोपपदोऽथर्ववेदे वेदशब्द इति चेद् वेदान्तरेष्वपि तुल्यमेतत, ऋग्वेदेो यजुर्वेदः सामवेद इति, निरुपपदो ऽपि तेषु वेदशब्दः प्र. युज्यते इति चेत् तदितरत्रापि समानमित्युक्तम् , चतुर्वेदाध्यायी भारद्वाज इति, सर्वथा तु सोपपद एवायुर्वेदादिषु वेदशब्द इति न तत्तुल्यकक्षताधिक्षेपक्षेत्रतामा थर्ववेदो नेतव्यः, ब्रह्मयज्ञविधिश्च श्रोतश्चतुष्प्यविशिष्ट इत्युक्तम् , स्मात्तों ऽपि तथाविध एवास्ति, यथा ऽऽह याज्ञवल्क्यः (१)
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पितश्च मधुसर्पिया॑मन्वहं शक्तितो द्विज इति ॥ साम्प्रदायिकमध्यापनादियजनादि सर्वमभिन्नमेवेत्यलं प्रसङ्गन ।
तेन प्रमाणतायां वेदस्वध्यायशब्दवाच्यत्वे पुरुषार्थसाधनविधावपि च. त्वारः समा वेदाः।
- अथर्ववेदस्य प्राथम्यम्यदि पुनरौत्तराधयेण विना न परितुष्यते तदथर्ववेद एव प्रथमः ततः परमस्य मन्त्रस्य ब्रह्मणः प्रणवस्याभिव्यक्तः, तथा च श्रुतिः, ब्रह्म ह वा इदमग्र आसीदित्युपक्रम्याथर्वणं वेदमभ्यस्याश्नास्यदभ्यतपत्सन्तपत्तस्माच्छान्तासन्तप्तादोमि. ति मन एवार्ध्वमक्षरमुदकामदित्यादि, तथा महाव्याहृतीनां शाखान्तरप्रसिद्धा. नामप्रसिद्धानां च बृहदित्यादीनां तत एवोत्थानम् , अथर्ववेदकृतोपनयनसंस्का. रस्य वेदान्तराध्ययनमविरुद्धम् , अन्यवेदेोपनीयमानस्य तु नाथर्वणोपनयनसं. स्कारमप्रापितस्याथर्ववेदाध्ययने ऽधिकारः, तदुक्तम् , भृग्वगिरोविदा संस्कृतो न्यान्वेदानधीयीत नान्यत्र संस्कृतो भृग्वाङ्गिरसो ऽधीयीतेति, त्रय्येकशरणैरपि चैतदवश्याश्रयणीयम् अथर्ववेदविहित स्वकर्मभ्रंशे प्रायश्चित्तमाचरद्भिरित्यथर्व.
(१) यालवल्क्यस्मृतौ । अ० १ ग्लो. ४४ ।