________________
२३८
न्यायमञ्जर्याम्
वेद एव ज्यायान् ।
यत्त मानवं वाक्यमुदाहृतं षटत्रिंशदाब्दिकं तत्रिवेदाध्ययनविषयं चैक ल्पिकं वेदानधीत्य वेदो वा वेदं वा ऽपि यथाक्रमभिति एकस्मिन्वदे द्वाद. शवषोणि व्रतं द्वयोश्चतुविंशतिः त्रयाणां षट्त्रिंशदिति, यस्तु चतुरो वेदानधीते तस्याष्टचत्वारिंशद्वर्ष वेदब्रह्मचर्यमुपासीतेति स्मत्यन्तरमस्ति न च तदा. येर्नाहतम् , तत्र त्रिवेदाध्यायिनामेव प्रतिवेदं षोडशवर्षाणि व्रतं चरेदिति व्या. ख्यानमसङ्गतम्, उपक्रमविरोधाद् अनुपयोगाच, तेन वेदान्तराध्ययनकृत ए. वायं विकल्पविधिन द्वादशषोडशवर्षापेक्ष इत्यनादरो ऽप्यस्यां स्मृतौ कृष्णकेशो ऽग्नीनादधीतेति श्रुतिविरोधकृतो नाथववेदाध्ययननिषेधगर्भ इति, त्रैवेदिकव्रत. ब्रह्मचर्यस्मृतिरपि चेयम् अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति न च वेदान्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति, त्रिषु वेदेविदं व्रतं न पुनरेष्वेव त्रिष्विति नियामकं वचनमस्ति ।
यदपि श्राद्धप्रकरणे यत्नेन भोजयेदितित्रिवेदपारगपरिकीर्तनं तद्वेदपारग. मिति शाखान्तरगमिति समाप्तिगमिति विशेषणपदपर्यालोचनया ऋग्वेदाधेक. वेदाध्यायिनामनधिकारमेव श्राद्धे सूचयति अथर्वणस्तु अथर्वशिरो ऽध्ययनमा
लब्धपडिक्तिपावनभावस्यैकदेशपाठिनो ऽपि तत्राधिकार उपपद्यते, दर्शितं चाथर्वशिरोऽध्ययनमात्रादपि पङ्क्तिपावनत्वं पक्तिपावनश्च श्राद्धभोजने ऽन. धिकृत इति विप्रतिषिद्धम् । ____ यत्त ज्येष्ठसामगस्त्रिमधुस्त्रिसुपर्णिक इति वेदान्तरैकदेशाध्यायिनामपि श्राद्धभोजनाभ्यनुज्ञानं तदनुकल्परूपमिव भाति प्रथमकल्पेन समप्रवेदाध्ययनो. पदेशादिति, तस्मानाथर्वनिषेधार्थमेतद्वाक्यमिति, तदेवमवस्थिते यद्वार्तिककारेण भयादिव द्वेषादिव मोहादिव सानुकम्पमिव वेदमुच्यते(१) यदि यज्ञोपयोगित्वमित्यादि तदहृदयङ्गमम् , अथववेदे पूर्वोत्तरब्राह्मणे विस्पष्टमिष्टिपश्वका. काहाहोनसत्राणामुपदेशात्, वेदान्तरेषु तच्चोदनाभावाकिमथर्ववेदे तदुपदेशेनेति चेत् सुभाषितमिदम् , एवमपि हि वक्तुं शक्यम् अथर्ववेदे तच्चोदनाया दर्शनातिक तदुपदेशेनेति, न च जाने कस्यैव पर्यनुयोगः किं नित्यस्य वेदस्य किं वा तत्प्र. णेतुरीश्वरस्येति द्वावपि हि तावपर्यनुयोज्यावित्युक्तम् , अर्थान्तरशान्तिपुष्टय. भिचारादि वेदान्तरेष्वपि न न दृश्यते श्येनो हि सामवेद उत्पन्नः अद्भुतशान्त्या. दयश्च यजुर्वेदइति तदपि समानम् , एकब्रह्मविगाश्रिता इत्येतदपि न सत्यम् , यत एवं तत्र पठ्यते द्वे यज्ञवृत्ती भवता वैहारिकी च पाकयज्ञवृत्तिश्चोत तत्र वहारिकी नामानेकत्विगाश्रितानामेकक्रियाणामुपदेशः श्रुतावेकब्रह्मविगाश्रिता
(२) तन्त्रवातिके अ १ पा० ३ सू० ४ ।