SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् २३९ स्तु शान्त्यादिक्रियाः स्मृतावित्यभूमिज्ञोक्तिरेषा त्रप्येवात्मीयगोचरा इति एतदपि परममाध्यस्थ्यम् , न ह्यात्मीयः परकीयो वा कश्चिदस्ति वेदार्थः सर्वशाखा. प्रत्ययत्वादेकस्य कर्मणः । वेदचतुष्टयसमानत्वोपसंहार:तस्मात्समानयोगक्षेमत्वात्सर्ववेदानामेकस्य ततः पृथक करणं वेदनिन्दाप्रा. यश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति न साधूनामित्युपरम्यते । इति तुल्यप्रभावद्धिवर्धमानोचितस्तवाः । विविधाभिमतस्फीतफलसंपादनोद्यताः ।। चस्वारो ऽपि पराक्षेपपरिहारस्थिरस्थितिम् । भजन्ति वेदाः प्रामाण्यलक्ष्मी हरिभुजा इव ॥ चतुःस्कन्धोपेतः प्रथितपृथगथैरवयवैः कृतान्योन्यश्लेषैरुपचितवपुर्वेदविटपः । प्रतिस्कन्धं शाखाफलकुसुमसंदर्भसुभगाः प्रकाशन्ते तस्य द्विजमुखनिपीतोत्तमरसाः ।। तन्त्रागमादिप्रामाण्यविचार:-- आहकिमेतदित्थं प्रामाण्यं वेदानामेव साध्यते । तन्त्रागमान्तराणां वा सर्वेषामियमेव दिक् ॥ किं चातः आये पक्षे परेष्वेवं वाणेषु किमुत्तरम् । उत्तरत्र तु मिथ्या स्युः सर्वे ऽन्योन्यविरोधिनः ।। कानि पुनरागमान्तराणि चेतसि विधायैवं वत्सः पृच्छति, पुराणेतिहास. धर्मशास्त्राणि वा शैवपाशुपतपञ्चरात्रबौद्धार्हतप्रभृतीनि वा तत्र शैवादीनि तावनिरूपयिष्यामः, मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत्तदर्थानुप्रविष्टविशिष्टकमोपदेशीनि प्रमाणमेव कस्तेषु विचारः, तेषां तु प्रमाणत्वं वेदमूलत्वेनैव के चिदाचक्षते, तथा हि न तावन्मन्वादिदेशना भ्रान्तिमूलाः संभाव्यन्ते बाधकामावात, अद्य यावदपरिम्लानादरैवेदविद्भिस्तदर्थानुष्ठानात, नाप्यनुभवमूलाः प्रत्य. क्षस्य त्रिकालानवच्छिन्नकार्यरूपधर्मपरिच्छेददशासामथ्योसंभवात् , न च पुरुषान्तरोपदेशमूलाः पुरुषान्तरस्यापि तदद्वगमे प्रमाणाभावत्, भावे वा मनुना किमपराद्धम् , असति हि मूलप्रमाणे पुरुषवचनपरम्परायामेव कल्प्यमानायामन्धपरम्परास्मरणतुल्यत्वं दुनिर्वारम् , न च विप्रलम्भका एव भवन्तो मन्वादय एवमुपदिशेयुरिति युक्ता कल्पना बाधकाभावात् साधुजनपरिग्रहाच्चेत्युक्तम् ,
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy