________________
न्यायमञ्जर्याम्
तस्मात्पारिशेष्याद्वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः, तद्ध्यनुगुणं समर्थ च कारणमिति तदाह भट्टः (१) - भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् । दृष्टानुगुण्यसामर्थ्याच्च दनैव लघीयसीति ॥ तत्र के चित्परिदृश्यमान मन्त्रार्थवादबान्नीत विधिमूलत्वं मन्यन्ते, अन्ये विप्रकीर्णशाखा मूलत्वम् ।
अपरे पुनरुत्सन्नशाखा मूलत्वमिति, अनेन च विशेषविवरणेन न नः प्रयोजनं सर्वथा यथेोपपत्ति वेद एव तत्र मूलं प्रकल्प्यतां न मूलान्तरम् अप्रमाणकत्वात्, वेदमूलत्वपक्षे ऽपि चेयमखिलजगद्विदिता स्मृतिसमाख्या ऽनुगृहोता भविष्यति, प्रत्यक्ष मूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः, किं च वेदमूलत्वे सति स्मृतेः श्रुतिविरोधे सति तदतुल्यकक्षत्वाद्वाध्यत्वं सुवचं भवति क्लृप्तमे• कत्र मूलमितरत्र कल्प्यम् यावदेव भवान्स्मृतेः श्रुतिः कल्पयितुं व्यवस्यति तावदेतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै स्मृति: प्रभवेत्, तदाह-भोके यदश्वेन हृतं पुरा ।
२४०
तत्पश्चाद्गर्दभः प्राप्तुं केने पायेन शक्नुयादिति (२) ॥
अपर आह, विकल एवात्र युक्तः किल द्विविधो वेदः श्रूयमाणेो ऽनुमीयमानश्च श्रूयमाणश्च श्रुतिरित्युच्यते अनुमीयमानश्च स्मृतिरिति, द्वावपि चैताव. नादी इति किं केन बाध्यते व्यक्ताव्यक्तो हि वेद एवासौ, अत एव न मन्त्रार्थवादादिमूलकत्वकल्पनं युक्तं स्मर्यमाणस्य वेदस्यानादित्वात् ।
नन्वेवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं वदन्तः प्रवादुकाः कथं प्रतिवक्तव्याः, उच्यते प्रत्युक्ता एव ते तपस्विनः, उक्तं हि भगवता जैमिनिना, अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति (३) कर्तृसामान्यादिति को अर्थ एकाधिकारावगमादिति य एव वेदार्थानुष्ठाने ऽधिकृताः कर्त्तारस्ते एव स्मृत्यर्थानुष्ठाने आचमनादिस्मार्त पदार्थ संवलितवेदि• स्तरणादिवैदिकपदार्थ प्रयोगदर्शनात्, न त्वेवमधिकारावगमा बाह्यस्मृतिषु विद्यते, तस्मान्मन्वादिस्मृतय एव प्रमाणं न बाह्यस्मृतयः ।
ननु मन्वादिस्मृतयोऽपि वेदमूलत्वात्प्रमाणं नान्यतः इति, अत्रोच्यते, त देतद्वेदमूलतया प्रामाण्यं योगिप्रत्यक्षं धर्मग्राहक ममृष्यमाणाः किलाचक्षते भवन्तः, एतञ्च न युक्तम्, यथा हि भगवानीश्वरः सर्वस्य कर्त्ता सर्वस्येशिता सर्व
( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० २ ।
(२) तन्त्रवार्तिके अ० १ पा० ३ सू० ३ अर्थानुवादोऽयम् । ( ३ ) जैमिनिसूत्रम् । श्र० १ पा० ३ सू० २ ।