________________
प्रमाणप्रकरणम्
२४१ दर्शी सर्वानुकम्पी च वेदानां प्रणेता समर्थितः तथा योगिप्रत्यक्षमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे समर्थितमेव तस्मात्तन्मूला एव मन्वादिदेशना भवन्तु ।
यत्त त्रिकालानवच्छिन्नः कथं प्रत्यक्षगम्यो धर्मः स्यादिति चोदनैव तत्र प्रमाणमुच्यते, प्रतिविहितं सदीश्वरप्रत्यक्षं यथा ऽग्निहोत्रादेर्धमत्वस्य ग्राहकमेव. मष्टकादियागेतस्य ग्राहक मन्वादिप्रत्यक्ष भविष्यतीति किमत्र त्रिकालानवच्छेदेन तदवच्छेदेन वा कृत्यम् , यद्येवमष्टकादिकर्मणां धर्मत्वाग्राहित्वादसर्वज्ञ ईश्वरः स्यात् , ज्ञात्वा वा ऽनुपदिशनकारुणिको भवेत् , नैष दोषः, सर्व जानात्येव भ. गवान किं चित्स्वयमुपदिशति किं चित्परानुपदेशयति, ते हि तस्यानुग्राह्या भ. गवतस्तेषां च तदनुग्रहकृतैव तथाविधज्ञानप्राप्तिः, मन्वादीनां प्रत्यक्षो धर्म इति वेदे ऽपि पठ्यते साक्षात्कृतधर्माण ऋषयो बभूवुः ते परेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्राहुरिति वेदे ऽपि पठ्यते।
नन्वेवं प्रत्यक्षमलत्वाविशेषाच्छ्रतिस्मृत्याविरोधे विकल्पः प्राप्नोति बृहद्रथन्तरविध्यारिव न बाध्यबाधकभावः, न हीश्वरप्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रा. माण्ये कश्चिद्विशेषः नैसर्गिकाहार्यत्वकृतस्तु भविष्यति किं तेन, उच्यते, भवतु विकल्पः को दोषः वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव, विष. यविभागेन वा विकल्पो व्याख्यास्यते न च श्रुतिस्मृतिविरोधोदाहरणं किं चिदस्तीति स्वाध्यायाभियुक्ताः, तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव धर्मशा. स्त्राणां हि पञ्चमं वेदमाहुः, उक्तं च
इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् ।
बिभेत्यल्पश्रुताद्वेदेो मामयं प्रतरिष्यतीति ॥ अथ वा किमस्माकं दुरभिनिवेशेन वेदमूलत्वात्स्मृतीनां स्मृतिवत् पुराणा नामपि भवतु प्रामाण्यम् , सर्वथा तावद्वेदाश्चत्वारः पुराणं स्मृतिरिति षडि. मानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशोनि, व्याकरणादीनि षडङ्गानि अङ्गत्वेनैव तदुपयोगीनि न साक्षाद् धर्मोपदेशोनि, कल्पसूत्रेष्वपि विक्षिप्तकमक्रमनियमसंग्रहमानं नापूर्वोपदेशः, मीमांसा वेदवाक्यार्थविचारात्मिका वेदप्रामाण्यनिश्चयहेतुश्च न्यायविस्तर इत्यामुखे एवोक्तम्, तदिमानि चतुर्दश विद्यास्थानानि प्रमाणम , कानि चित्साक्षादुपदेशीनि कानि चित्तदुपयोगीनि इति सिद्धम् ।
शैवपाश्चरात्राद्यागमप्रामाण्यस्थापनम्--- यानि पुनरागमान्तराणि परिदृश्यन्ते तान्यपि द्विविधानि कानि चित्स. वात्मना वेदविरोधेनैव प्रवर्तन्ते बौद्धादिवत् , कानि चित्तदविरोधनैव कल्पितव्रतान्तरोपदेशीनि शैवादिवत् , तत्र शैवाद्यागमानां तावत्प्रामाण्यं ब्रूमहे
३१ न्या०