________________
२४२
न्यायममर्याम्
तदुपजनितायाः प्रतीतेः संदेहबाधकारणकालुष्यकलापस्यानुपलम्भात् , ईश्वरकर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात् , मूलान्तरस्य लोभमोहादेः कल्पयितुमशक्यत्वात्, न हि तत्रेदंप्रथमता स्मयते वेदवदेकदेशसंवादाश्च भूम्ना दृश्यन्ते इति कुतो मलान्तरकल्पनाऽवकाशः, न च वेदप्रतिपक्षतया तेषामवस्थानं वेदप्रसिद्धचातुर्गादिव्यवहारापरित्यागात् ।
मन्वादिचोदनान्यायः स यद्यपि न विद्यते । शैवागमे तथा ऽप्यस्य ननु युक्ता प्रमाणता ।। सर्वोपनिषदामा निः श्रेयसपदस्पृशः । विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥ ये च वेदविदामग्रयाः कृष्णद्वैपायनादयः । प्रमाणमनुमन्यन्ते ते ऽपि शैवादिदर्शनम् ।। पञ्चरात्रे ऽपि तेनैव प्रामाण्यमुपवर्णितम् ।
अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किं चन ॥ तत्र च भगवान्विष्णुः प्रणेता कथ्यते स चेश्वर एव ।
एकस्य कस्य चिदशेषजगत्प्रसूतिहेतोरनादिपुरुषस्य महाविभूतेः। सृष्टिस्थितिप्रलयकार्यविभागयोगाद्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ॥ वेदे च पदे पदे एक एव रुद्रो ऽवतस्थे न द्वितीय इति इदं विष्णुविचक्रमे इति रुद्रो विष्णुश्च पठ्यते, तद्योगाच्च तदाराधनोपाया वेदे ऽपि चोदिता एव शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपदिश्यन्ते, न चैष वेदविरोधो वैकल्पिकस्वादुपायानाम्, अत प्राप्तप्रणीतत्वादाविरुद्धत्वाच्च न तयोरप्रामाण्यम्।
बौद्धाद्यागमानामप्रामाण्याम्... ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः कस्तेषु प्रामाण्य. मार्यो ऽनुमोदते।
बुद्धशस्त्रे हि विस्पष्टा दृश्यते वेदबाह्यता। जातिधर्मोचिताचारपरिहारावधारणात् । संसारमोचकाः पापाः प्राणिहिंसापरायणाः। मोहप्रवृत्ता:एवेति न प्रमाणं तदागमः ।। निषिद्धसेवनप्रायं यत्र कोपदिश्यते । प्रामाण्यकथने तस्य कस्य जिह्वा प्रवत्तेते ॥ ततो यद्यपि सिद्धिः स्यात् कदा चित्कस्य चित्र क चित् ।