SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् २४३ ब्रह्महत्यार्जितग्राम्यभोगवन्नरकाय सा ॥ निषिद्धाचरणोपात्तं दुष्कुतं केन शाम्यति । अतः कालान्तरेणापि नरके पतनं पुनः ।। यत्त्वत्र चोदितं परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिवि. धेयमिति तत्रोच्यते, महाजनप्रसिद्ध्यनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति नान्यथा, महाजनश्च वेदानां वेदार्थानुगामिनां च पुराणधर्मशास्त्राणां वेदावि रोधिनां च केषां चिदागमानां प्रामाण्यमनुमन्यते न वेदविरुद्धानां बोद्धाद्याग. मानाम् इति कुतस्तेषामाप्तप्रणीतत्वम्, मूलान्तरं हि तत्र सुवचम् अज्ञानलो. भादीत्येवमभिधाय वेदस्पर्धिनो बौद्धादयो निषेद्धव्याः, आह को ऽयं महाजनो नाम किमाकारः किमास्पदः । किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि । अपि च, बौद्धादयो बुद्धादीनाप्तान स्वागमप्रामाण्यसिद्धये वदन्ति ते महा. जनमपि निजं तत्सिद्धये वृन्दादिकं वदेयुरेव कस्तत्र प्रतीकारः, उच्यते, चातुर्वण्य चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्ध स महाजन उच्यते, आकारस्तु तस्य कीदृशंपाणिपादं कीदृशं शिरोग्रीवं वाकियती तस्य संख्येति पुरुषलक्षणानि गणयितुं न जानीमः, चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनो वेदप्रथमप्रवृत्त श्रागमान्तरवादिभिरप्रत्याख्येय एव, तथा चैते बौद्धादयो ऽपि दुरात्मानो वेदप्रा. माण्यनियमिता एव चण्डालादिस्पर्श परिहरन्ति निरस्ते हि जातिवादावलेपे वा क चाण्डालादिस्पर्श दोषः ये ऽपि अन्य के चिदशुचिभक्षणागम्यागमना. दिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति ते ऽपि चातुर्वर्णादिमहाजनभीता स्तं तं रहसि कुर्वन्ति न प्रकाशम् , निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौ. यवत्तदथोनुष्ठानम् , अत एव न निजो महाजन उत्थापयितुं शक्यते वृन्दकादिः किं त्वयमेव चातुर्वयादिमहाजनः स चैष महाजनो वेदविरुद्धमागमं परि. हरत्येव नानुमोदते । संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः । बौद्धरपि सहैतेषां व्यवहारो न कश्चन ॥ वेदधर्मानुवर्ती च प्रायेण सकलो जनः । वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा ।। ईशश्चायमनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिः यदन्ये बाह्यागमवादिन एवमेव स्पर्धन्ते, ते हि स्वागमप्रामाण्यमभिवदन्तो वेदरीत्या. भिदधति वेदे यथा तथा प्रवेष्टुमीहन्ते वैदिकानर्थानन्तरान्तरा स्वागमेषु निबध्नन्ति वेदस्पर्शपूतमिवात्मानं मन्यन्ते तेषामप्यन्तहृदये ज्वलतीव प्रामाण्यम् , अत एवंविधाया महाजनप्रसिद्धरागमान्तरेष्वदर्शनान्न तेषामाप्तप्रणी
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy