________________
न्यायमअर्याम्
तत्वम् , आह
महाजनप्रसिद्ध्यैव वेदप्रामाण्यनिश्चयात् । ।
किमर्थः कण्ठशोषो ऽयमियानार्येण्ग संश्रितः ॥ वेदप्रामाण्यसिद्धयर्थं हि इदं शास्त्रमारब्धमिति गीयते वेदप्रामाण्यस्य च महाजनसिद्धयैव सिद्धत्वात्किं शास्त्रेण, अलं क्षुद्रचोधरीदृशैः ।
महाजनप्रसिद्धं हि के चिद्विप्लावयन्त्यपि ।
अतस्तदुपघाताय शास्त्रमत्रं प्रयुज्यते ॥ तस्मात्पूर्वोक्तानामेव प्रामाण्यमागमानां न वेदबाह्यानामिति स्थितम् ।
आप्तोक्तत्वेन सर्वागमानां प्रामाण्यस्य स्थापनम् - अन्ये सर्वागमानां तु प्रामाण्यं प्रतिपेदिरे । सर्वत्र बाधसन्देहरहितप्रत्ययोदयात् ॥ सर्वत्र वेदवत्कर्तुराप्तस्य परिकल्पना ।
दृष्टार्थेष्वेकदेशेषु प्रायः संवाददर्शनात् ।। यत्पुनरत्रोक्तं सर्व एवागमाः परस्परविरुद्धर्थोपदेशित्वादप्रमाणं स्युरिति त. त्रोच्यते, आप्तप्रणीतत्वेन तुल्यकक्ष्यत्वादन्यतमदौर्बल्यनिमित्तानुपलम्भाच्च न कश्चिदागमः कं चिद्वाधते, विरोधमात्रं त्वकिंचित्करं प्रमाणत्वाभिमतेषु वेदवाक्येष्वपि परस्परविरोधदर्शनात , पुरुषशीर्षस्पर्शनसुराग्रहगवालम्भादिचोदना. सु वचनान्तरविरुद्धमर्थजातमुपदिष्टमेव, किं चागमानां विरोधो ऽपि नातीव विद्यते प्रमाणानां पुरुषार्थे सर्वेषामविवादात् ।
नानाविधैरागममार्गभेदैरादिश्यमाना बहवो ऽभ्युपायाः ।
एकत्र ते श्रेयसि संपतन्ति सिन्धौ प्रवाहा इव जाह्नवीयाः ॥ तथा ह्यपवर्ग उपेयः सर्वशास्त्रेषु निर्दिश्यते ज्ञानविषये तु विवदन्त, तत्रापि प्रायश आत्मविषयतायां बहूनामविप्रतिपत्तिः, प्रकृतिपुरुषविवेकज्ञानपक्षे तु प्रकृतेविविक्ततया पुरुष एव ज्ञेयः, नैरात्म्यवादिनस्तु आत्मशैथिल्यजननायाऽपदिशन्ति, स्वच्छं तु ज्ञानतत्त्वं यत्तैरिष्यते तत्स्वातन्त्र्यादनाश्रितत्वादात्मकल्पमेव कूटस्थनित्यत्वे प्रवाहनित्यत्वे च विशेषः, एवं प्रधानयोस्तावदुपायोपेययोरविवादः, क्रिया तु विचित्रा प्रत्यागमं भवतु नाम भस्मजटापरिग्रहो वा दण्डक. मण्डलुग्रहणं वा रक्तपटधारणं वा दिगम्बरता वा ऽवलम्ब्यतां को ऽत्र विरोधः, वेदे ऽपि किमल्पीयांसः पृथगितिकर्तव्यताकलापखचिताः स्वर्गोपायाश्चोदिताः, तस्मात्परस्परविरोधे ऽपि न प्रामाण्यविरोधः, असश्च यदुच्यते
कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा। अथाभावपि सर्वज्ञो मतभेदस्तयोः कथम् ।।