________________
प्रमाणप्रकरणम्
२४५
इति तदपास्तं भवति, प्रधाने सति भेदाभावात , क चिञ्च तद्भावे प्रामाण्य. विरोधात् , न च क्रोशनहेतुकर्मोपदेशादागमान्तराणामप्रामाण्यम् तस्याप्रमाणतायामप्रयोजकत्वात् ।
विचिकित्सा हि नृशिरःकपालाद्यशनेषु या। सा ऽप्यन्यदर्शनाभ्यासभावनोपनिबन्धना ।। तथा च शान्तचित्तानां सर्वभूतदयावताम् ।
वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्तते ।। अभिचारादिहिंसायां वैदिक्यामपि भवतु हृदयोत्कम्पः, करणांशोपनिपातिनी हिंसेति लिप्सातस्तस्यां प्रवृत्तिः । ___ यत्त्वनीषोमीयादिपशुहिंसेतिकर्तव्यतांशस्था यस्यां क्रत्वर्थो हि शास्त्रादव. गम्यते इति वैदी प्रवृत्तिः तस्यामपि कारुणिको लोकः सविचिकित्सो भवति वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः” इति, न चैतावता वेदस्याप्रामाण्यमेवमागमान्तरेष्वपि भविष्यति ।
यत्तु आगमान्तरेभ्यः कोलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरण कृतः कालान्तरे ऽवश्यं भावीत्युक्तम् , तदपि न युक्तम्, तस्यार्थस्य तदागतिनिषिद्धत्वाभावात् आगमान्तरनिषिद्धत्वे ऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरु. षार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन्सिद्धे कुतः प्रत्यवायः, भवतु वा कालान्तरे ततः प्रत्यवायः तथा ऽप्यधिकारिभेदेन तत्फले कर्मणि चौद्यमाने श्येनादाविव नागमप्रामाण्यमत्र हीयते, श्येनेनाभिचरन्यजेतेत्यत्राभिचरन्निति शता लडितनिषेधमधिकारिणमाचष्टे तस्य च श्येनयागश्चोदितः स च तत्प्रयोगात्कृतवधः प्रत्यवेत्येव न च वेदस्याप्रामाण्यम् , उक्तं च(१) उभयमिह चोदनया लक्ष्यते अर्थो ऽनश्चेति, अधिकारभेदाच्च विचित्रकर्मचोदना नानुपन्ना, मरणकामस्य सर्वखारः चोदितः आयुष्कामस्य कृष्णलचरुः, तस्मादेतदपि नाप्रामाण्य. निमित्तम् ।
यदपि बौद्धागमे जातिवादनिराकरणं तदपि सर्वानुग्रहप्रवणकरुणातिशयप्र. शंसापरं न च यथाश्रुतमवगन्तव्यम् , तथा च तत्रेतत्पठ्यते न जातिकायदुष्टान्प्रव्राजयेदिति, तस्मात्सर्वेषामागमानामाप्तैः कपिलसुगतार्हत्प्रभृतिभिः प्रणीतानां प्रामाण्यमिति युक्तम् ।
सर्वागमानामीश्वरप्रणीतत्वम्अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान्प्रणेतेति स हि सकलप्राणि. नां कर्मविपाकमनेकप्रकारमवलोकयन् करुणया ताननुग्रहीतुमपवर्गप्राप्तिमार्ग'
(१) काबरभाष्ये अ. १ पा. सू. २ ।