SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४६ न्यायमञ्जर्याम् बहुविधमुत्पश्यन्नाशयानुसारेण केषां चित्क चित्कर्मणि योग्यतामवगम्य तं तमुपायमुदिशति स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात्स एव संज्ञाभेदानु। पगच्छति अर्हन्निति कपिल इति सुगत इति स एवोच्यते भगवान् , नानासर्व. ज्ञकल्पनायां यत्नगौरवप्रसङ्गात् । ननु बुद्धः शुद्धोदनस्याऽपत्यं स कथमीश्वरो भवेत् परिहृतमेतद्भगवता कृष्णद्वैपायनेन यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदा ऽऽत्मानं सृजाम्यहमिति ॥ शरीरमेव शुद्धोदनस्यापत्यं नात्मा, अतः प्रतियुगं विष्णुरेव भगवान्धर्मरूपेणावतरतीत्यागमविदः प्रतिपन्नाः। ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं तादृशो महाजनसंप्रत्ययो नास्ति, एवं नास्ति तेन वर्त्मना भगवता कतिपये प्राणिनो ऽनुगृहीताः येषां तादृश श्राशयो लक्षितः, वैदिकेन तु वर्त्मना निःसंख्यकाः प्राणिनो ऽनुगृहीता इति तत्र महानादरः आगमान्तरेषु कृश इति, एककर्तृ के परस्परविरोधः कथमिति चेद् वेदैरेवात्र वर्णितः समाधिः, तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादि. त्युक्तम् , तस्मादीश्वरप्रणीतत्वादेव सर्वांगमानां प्रामाण्यम् । अपरे पुनवेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन् , यो हि मन्वादिदे. शनानां वेदमूलतायां न्याय उक्तः भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् । दृष्टानुगुणसामर्थ्याच्चोदनैव लघीयसीति ।। स सर्वागमेषु समानः, न च मन्वादिस्मृतीनां मूलभूता श्रुतिरुपलभ्यते अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् । ननु चोक्तम् अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति सच्चेह नास्तीति कथं श्रुत्यनुमानम् , नैष दोषः एकाधिकारावगमो न प्रामाण्ये प्रयोजकः । मिश्रानुष्ठानसिद्धौ तु कामं भवतु कारणम् ॥ न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति वर्णाश्रमभेदा. नुष्ठेयकर्मवत् । कर्तृसामान्यशून्यत्वादथ मूलान्तरोदयः । तदसदाधकाभावाद् भ्रान्त्यादिप्रतिषेधनात ॥ प्रत्यक्षमूलतायां तु गुर्वी भवति कल्पना । वेदस्त्वनन्तशाखत्वान्मूलं तत्र स्वसङ्गतम् ।। नन्वत्र वेदमलत्वे द्वेषो वेदविदां कथम् ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy