________________
प्रमाणप्रकरणम्
२४७
गत्वा त एव पृच्छयन्तां येषां द्वेषादि विद्यते । गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके। प्रत्युक्तं च विरुद्धत्वं शाखानन्त्याच्च दुर्गमम् ।। किमियद्वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ।
शाखान्तराद्वा संवादो न लभ्यतेति का प्रमा॥ तथाच सांख्यशास्त्रप्रसिद्धत्रिगणात्मकप्रकृतिसूचनपरम् अजामेकां लोहिशुक्लकृष्णामिति वैदिकं लिङ्गमुपलभ्यते, निर्ग्रन्थकथितवचसः चित्तत्त्वज्ञान शंसी चायमनुवादो दृश्यते मुनयो वातरसना इति, एवं रक्तपटपरिग्रहभस्मक. पालधारणादिमूलमप्यभियुक्ता लभन्ते एव ।
मन्वादिस्मृतिवत्कर्तृसाम्यस्यासम्भवे ऽप्यतः ।
प्रमाणं वेदमूलत्वाद्वाच्या सर्वागमा स्मृतिः ॥ ततश्च
(१)यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ इत्यत्र यथा मनुग्रहणं गौतमयमापस्तम्बसंवर्तकाठकादिस्मृत्यन्तरोपलक्षणम् एवमहत्कपिलसुगताद्युपलक्षणपरमपि व्याख्येयम् ।
ननु च लोकायताद्यागमो ऽप्येवं प्रामाण्यं प्राप्नोति विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञा ऽस्तीति वेदमूलदर्शनात्, ततश्च लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः, उच्यते
न हि लोकायते किं चित् कर्तव्यमुपदिश्यते । __ वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥
ननु च यावज्जीवं सुखं जीवेदिति तत्रोपदिश्यते, न स्वभावसिद्धत्वेनात्रोपदेशवैफल्यात् , धर्मो न कार्यस्तदुपदेशेषु न प्रत्येतव्यमित्येवं वा यदुपदिश्यते तत्प्रतिविहितमेव पूर्वपक्षवचनमूलत्वाल्लोकायतदर्शनस्य, तथा च तत्रोत्तरब्राह्मणं भवति(२) न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरे ऽयमात्मा मात्रासंसर्गस्त्वस्य भवतीति, तदेवं पूर्वपक्षवचनमूलत्वाल्लोकायतशास्त्रमपि न स्वतन्त्रम् , उत्तरवाक्यप्रतिहतत्वात्तु तदनादरणीयम् ,शास्त्रान्तराणां तु पूर्वप क्षवाक्यमूलकत्वकल्पनमयुक्तम् , समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेरित्यतो वेदमूलत्वात्सर्वागमः प्रमाणम् ।
(१) मनुस्मृतौ भ. १ श्लो.. । (२) वृहदारण्यकोपनिषदि अ०४ ब्रा५ ४ खं०१२-१३ ।