________________
२४८
न्यायमञ्जयाम्
आगमविशेषाप्रामाण्यस्थापनम्सर्वागमप्रमाणत्वे नन्वेवमुपपादिते । अहमप्यद्य यं कं चिदागर्म रचयामि चेत् ।। तस्यापि हि प्रमाणत्वं दिनैः कतिपयैर्भवेत् ।
तस्मिन्नपि न पूर्वोक्तन्यायो भवति दुर्वचः॥ जरत्पुस्तकलिखितं यदपि तदपि किं चिदिदानी केनापि धूर्तेन प्रख्याप्यते।
महाजनसमूहे ये प्रसिद्धि प्रापुरागमाः । कृतश्च बहुभिर्येषां शिष्टेरिह परिग्रहः ॥ अद्य प्रवर्तमानाश्च नापूवो इव भान्ति ये । येषां न मलं लोभादि येभ्यो नोद्विजते जनः ।। तेषामेव प्रमाणत्वमागमानामिहेष्यते ।
न मृष्यते तु यत्किं चित्प्रमाणं कुट्टिनीमतम् ॥ तथा हि
अमितैकपटनिवीतानियतस्त्रीपुंसविहितबहुचेष्टम् । नीलाम्बरबतमिदं किल कल्पितमासीद्विटैः कैश्चित् ।। तदपूर्वमिति विदित्वा निवारयामास धर्मतत्त्वज्ञः । राजा शङ्करवर्मा न पुन नादिमतमेवम् ॥ इत्याप्तोक्तत्वहेतोः परिमुषितपरोदोरिताशेषदोषा. देषां वेदागमानां सुदृढमुपगते मानभावे प्ररोहम । तन्मूलत्वात्तथात्वं पुरुषवचनतो वा ऽस्तु शास्त्रान्तराणां तद्द्वारेणापि वक्तुं न खलु कलुषता शक्यते वेदवाचाम् ।।
वेदप्रामाण्याक्षेपःननु नाद्यापि वेदस्य प्रामाण्यं सुस्थवस्थितम् ।
स्वदेहसंभवैरेव दोषैरनृततादिभिः ।। चित्रया यजेत पशुकामः पुत्रकामः पुत्रष्ट्या यजेतेति श्रूयते न चेष्टयनन्तरं पुत्रपश्वादिफलमुपलभ्यते, तस्मादसत्याः चित्रादिचोदनाः,
ननु च यः पशुकामः स इष्टिं कुर्यादितीयानेव वाक्यार्थः तत्र यागात्पशवो भवन्तीति एतदेव तावदुपपाद्यम, ते च भवन्तो ऽप्यनन्तरमेव भवन्तीति एतद् दुरुपपादनम् अतः कथं न सत्यार्थत्वं चित्रादिचोदनानाम,उच्यते यावज्जीवं यजेत यावज्जीवं जुहुयादिति जीवनवदसाध्यमानपशुकामनैव नाधिकारिविशेषणं भवितुमर्हति पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानस्य तत्राधिकार एव न सम्प्रवत्तते एव इति निर्णष्यते एतत् , आनन्तयमपि कर्मस्वभावपयोलोचनेनैव गम्यते