________________
प्रमाणप्रकरणम्
२४९
समनन्तरफलत्वेन कर्मणां दृष्टत्वात् , अाह च कर्मकाले च फलेन भवितव्यम् यत्कालं हि मर्दनं तत्कालं मर्दनसुखमिति, अधिकार्यपि पश्वाद्यभावपरितप्यमानमानस एव कर्मण्यधिक्रियते यदि सद्य एव ततः फलमासादयेत् , कालान्तरे च कर्मणः प्रध्वंसात्कुतः फलम, आह च यदा तावदियं विद्यमाना ऽऽसीत्तदा फलं न दत्तवती यदा फलमुत्पद्यते तदाऽसौ नास्ति असती कथं फलं दास्यतीति अपि च कालान्तरे फलस्यान्यत् प्रत्यक्ष कारणमुपलभ्यते सेवादि तस्मिंश्च कारणे दृष्टे सति को नाम सूक्ष्मदृष्टिरदृष्टं चित्रादिकारणं कल्पयेत्, तस्मादसत्याश्चित्रादिचोदनाः प्रत्यक्षादिप्रमाणपरिच्छेदयोग्यार्थोपदेशत्वे सत्यपि तत्संवा. दशून्यत्वाद् एवंविधविप्रलम्भकवाक्यवत् ।
चित्रादिवचसामेवमपचारस्य दर्शनात् ।
अनाश्वासो ऽग्निहोत्रादिचोदनास्वपि जायते॥ अग्निहोत्रचोदना मिथ्या वेदैकदेशत्वाच्चित्रादिचोदनादिवत् , तदत्र तावदसंवादादप्रामाण्यम, एवं पुत्र कामः पुत्रेष्ट्या यजेतेत्येवमादावपि असंवा. दो द्रष्टव्यः ।
विसम्वादोऽपिक्क चिदृश्यते, प्रमोते यजमाने पात्रचयाख्यकोपदिश्यैव. मादिदेश वेदः स एष यज्ञायुधी यजमानोजसा स्वर्ग लोकं यातीति तत्रैष इति तावदात्मनो निर्देशः क्लिष्ट एव परोक्षत्वात् , स्फ्यकपालादियज्ञायुधसंबन्धाभा. वाच्च, कायस्त्वेष निर्दिश्यते स न स्वर्ग लोकं यातीति तद्विपरीतभस्मीभावोपलम्भादिति विसंवादः, एवं चासंवादविसंवादाभ्यामप्रमाणं वेदः।
व्याघाताच्च उदिते होतव्यमनुदिते होतव्यं समयाध्युषिते होतव्यमिति होमकालत्रयमपि विधाय निन्दाऽर्थवादैः तदेव निषेधति, श्यामो वा अस्याहुति मभ्यवहरति य उदिते जुहोति शबला वा अस्याहुतिमभ्यवहरति यो ऽनुदिते जुहोति श्यामशबलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति, न चार्थवादमात्रमेतदिति वक्तव्यम् , यतः
विधानं कल्पते स्तुत्या निन्दया च निषेधनम् ।
विधिस्तुत्योः समा वृत्तिस्तथा निन्दानिषेधयोः । न हि निन्दा निन्दितुमुपादीयते किं तु निन्दितादितरत्प्रशंसितमित्ययमपि प्रकारो ऽत्र न सम्भवति, कालत्रयस्याप्यत्र निषेधात्कस्यान्यस्य तन्निन्दया प्रशंसा विधीयते, तस्मात्परस्परविरुद्धार्थोपदेशलक्षणाद्याघातादप्रमाणं वेदः ।
पौनरुत्याञ्च त्रिः प्रथमामन्वाह त्रिरुत्तमामित्यभ्यासचोदनायां प्रथमोत्तम. योः सामिधेन्योस्त्रिवचनात्पौनरुत्यम, सकृदनुवचनेन तत्प्रयोजनसम्पत्तेरनर्थक त्रिर्वचनम, तस्मादित्थमनृतव्याघातपुनरुक्तदोषकलुषितत्वादप्रमाणं वेदः, तदाह
३२ न्या०