________________
२५०
न्यायमअर्याम्
सूत्रकारः “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः (१) पुत्रकामेष्टिहवना. भ्यासेष्विति।
वेदप्रामाण्याक्षेपपरिहार!अत्र समाधिमाह "न कर्मकर्तृसाधनवैगुण्यादिति”(२)अयमाशयः अप्रा. माण्यसाधनमनृतत्वं परैरुक्तम , अनृतत्वे च साधनं फलादर्शनम् एतच्चानैकान्तिकम, अन्यथा ऽपि फलादर्शनोपपत्तेः किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम् उत कादिवैगुण्यादिति न विशेषहेतुरस्ति, ननु न कदा चिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगु: ण्यमिति तदयुक्तम, अविगुणायां कारीयों प्रयुक्तायां सद्य एव वृष्टदर्शनात् , न च तत्काकतालीयम आगमेनान्वयव्यतिरेकाभ्यां च तत्कारणत्वदर्शनात् , पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयैव न सद्यो भवितुमर्हति न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः स्त्रीपुंसयोगकारणान्तरस. व्यपेक्षत्वात्तदुत्पत्तेः, पश्वादिप्राप्तिस्तु कस्य चिदुत्तरकाले ऽपि दृश्यते प्रतिग्रहादिना, तथा ह्यस्मपितामह एव ग्रामकामः सांग्रहणी कृतवान् स इष्टिसमाप्तिस. मनन्तरमेव गौरमूलकं ग्राममवाप, नन्वेवं तर्हि प्रतिग्रहाद्यव दृष्टं कारणमस्तु पश्वादेः पुत्रस्य च स्त्रीपुंसयोगः किमिष्टेः कारणत्वकल्पनयेति मैवं वोचः, स. स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतदर्शनादिष्टिकृतं स्त्री. पुंसयोगादिकारणत्वमिति निश्चीयते । किं च
सेवाध्ययनकृष्यादिसाम्ये ऽपि फलभेदतः । वक्तं न युक्ता तत्प्राप्तिदृष्टकारणमात्रजा ।। भूतस्वभाववादादि पुरस्तात्प्रतिषिध्यते ।
तस्मान्ननमुपेतव्यमत्रान्यदपि कारणम् ।। तदुक्तम् तच्चैव हि कारणं शब्दश्चेति, यत्र पुनरविगुणे ऽपि कर्मणि प्र. युज्यमाने कालान्तरे ऽपि पुत्रपश्वादिफलं न दृश्यते तत्र तीव्र किमपि प्राक्तनं कर्म प्रतिबन्धक कल्पनीयम् , यथोक्तम् “फलति यदि न सर्व तत्कदा चित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते" इति, कर्मादिवैगुण्यग्रहणमुपलक्षणार्थमृ. षिणा प्रयुक्तम् , न तु वेदस्याप्रामाण्यकल्पना साध्वी साद्गुण्ये कर्मणः प्राचुर्येण फलदर्शनात् ,
अपि च चित्रातः पशवो भवन्तीत्येतावानेव शास्त्रार्थः आनन्तये तु न किं चित्प्रमाणमस्ति तदयं प्रत्यक्षादिसंवाद आनन्तर्यविषयः चित्रादिचोदना त्वनिदिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते । तदाह भट्टः (१) गौतमसूत्रम् अ. १ आ. २ स. १६ । (२) गौतमसूत्रम् अ.१ भा. २ सू.६७।