________________
प्रमाणप्रकरणम् आनन्तर्याधसंवादो नाविशेषप्रवर्तिनीम् ।
चोदनां बाधितुं शक्तः स्फुटाद्विषयभेदत(१) इति ॥ ___ यत्त कर्मस्वभावपर्यालेोचनया चित्रादेरनन्तरफलत्वमुक्तम् यत्कालं हि मर्दनं तत्कालं मर्दनसुखमिति तदेतदत्यन्तमनभिज्ञस्याभिधानम् विधिफलानां क्रियाफलतुल्यत्वानुपपत्तेः इह, किं चिद्विधिफलं भवति किं चित्क्रियाफलम् , कृष्यादौ तु भूमिपाटवादि क्रियाफलं सस्यसम्पत्तिस्तु विधिफलम् , कः पुनः कृष्यादौ विधिः अस्ति वार्ताविद्यायां वृद्धोपदेशे वा कश्चिद्विधिः, अन्व. यव्यतिरेको वा तत्र विधिस्थानीयौ भविष्यतः, लोके ऽपि च वेतनकामः पच. तीत्यादौ पाकक्रियाफलमोदनः विधिफलं तु वेतनम, तत्र क्रियाफलानामेवेष नियमो यक्रियानन्तरभावित्वम् , विधिफलानां तु वेतनादीनां नास्ति कालनि. यमः इष्टावपि हविर्विकारादि क्रियाफलं सद्यो भवति मृगतस्तु पुंसः सेवाफलमनियतफलम् ।
प्रामकामा महीपाल सेवेतेत्येवमादिषु ।
लौकिकेषु विधिध्वस्ति न कालनियमः फले ॥ आयुर्वेदेोपदिष्टानामप्यौषधविधीनां न क्रियावत्सद्य एव फलदर्शनम् अपि तु कालापेक्षमेवेति न फलानन्तर्ये किं चित्प्रमाणम,
यत्तु पशुविरहकृतकदशनादिदोदूयमानाधिकारिस्वरूपपर्यालोचनया सद्यः फलत्वमुच्यते तदपि न साम्प्रतम् , पुरुषेच्छामात्रमेतन्न प्रमाणवृत्तम् ,
अपि चैहिकत्वं फलस्य तावता सेत्स्यति न पुनः क्रियाफलवत्सद्यस्त्वम् , सन्ति चैहिकफलान्यपि कालान्तरसव्यपेक्षाणि कर्माणि यथा “ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे" इति न तत्र पञ्चमवर्षे उपनीतमात्र एव माणवको ब्रह्मवर्चससम्पन्नो भवति कालान्तरे तु भवतीति, एवं वीर्यकामादिष्वपि द्रष्टव्यम्, तस्माद्विधिफलानामानन्तर्यनियमाभावान्न तद्विसंवादो दोषाय कालान्तरे ऽपि यत्र फलादर्शनं तत्र क्रियावैगुण्यकर्मान्तरप्रतिबन्धादि कारणमित्युक्तम् ।
मतान्तरेण वेदप्रामाण्याक्षेपपरिहारः । अन्ये कादिवैगुण्यकल्पनाननुमोदिनः ।
इहाफलस्य चित्रादेः फलमामुत्रिकं जगुः ।। सर्वाङ्गोपसंहारेण काम्यकर्मप्रयोगात्को ऽवसरः कर्मवैगुण्यकल्पनायाम् , जन्मान्तरे तु तत्फलमिति कल्पना,
तथा च त्रिविधं कर्म किं चिदैहिकफलमेव किं चिदनियतफलमेव कि चिदामुमिकफलमेव इति कल्पना, तत्र कार्यादि तावदैहिकफलमेव तद्धि
(१) लोकवातिके चित्रापरिहारे लो० ४ ।