________________
२५२
न्यायमझयाम्
सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते वृष्टिलक्षणं च तत्फलं स्वभा. वत एव सकललोकसाधारणम् आसन्नतयैव तदभिलषणीयमिति सद्य एव भवतुमर्हति वचनानि च तत्र तादृश्येव दृश्यन्ते यदि वर्षेत्तावत्येवेष्टिं समापयेचाद न वर्षेच्छ्रोभूते जुहुयादिति, आमुष्मिकफलं तु कर्म ज्योतिष्टोमादि फल. खभावमहिम्नैव पारलौकिकफलं भवति ।
स्वगों निरुपमा प्रीतिशा वा तद्विशेषणः । . भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ।।
चित्रादि त्वनियत फलं कर्म तत्फलस्य पश्वादेरिह वा परत्र वा लोके स. म्भवात् , अवश्यं चैतदेवं विज्ञेयम् , तथा यकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्मनिमित्तत्वहानेः बृहस्पतिमतानुप्रवेशप्रसङ्गः, कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्मेति निरूपणीयम् न हि ब्रह्मवर्चसादिफलात् कर्मणः पशवो निष्पपद्यन्ते, चित्रा च पशुफलेह जन्मनि तैर्न कृतैव पूर्वजन्मकृता तु तस्मिन्नेव जन्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसंपत् , ननु गौतमवचनप्रामाण्यात्पूर्वकृतभुक्तशिष्टज्योतिष्टीमादिकर्मनिमित्तक: पशुलाभो भविष्यति, यथोक्तम्(१) वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य फलमनुभूय पतन्तः शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्ते इति, नैतद्यथाश्रुतं बोर्बु युक्तम्
न धन्यफलकं कर्म दातुमीष्टे फलान्तरम् ।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ।। तस्मात्समूहापेक्षाशेषवाचायुक्तियाख्येया बहूनि कर्माणि वर्णा आश्रमाश्च कृतवन्तः ततः कर्मसमूहाज्ज्योतिष्टोमादिफलं प्रेत्यानुभूयते ततः शेषेण चित्रा. दिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्ते इत्यर्थः, तस्मात्पूर्वजन्मकृतचित्रादिनिबन्धन इह जन्मनि पशुलाभो नाकर्मनिमित्तको नान्यकर्मनिमित्तक इत्येवमनियतफलत्वाचित्रादेरिह जन्मनि फलादर्शने ऽपि नानृतत्वं तचोदनानां जन्मान्तरे हि ता इष्टयः फलं दास्यन्तीति । ___ मतान्तरेण वेदप्रामाण्याक्षेपपरिहारस्य निराकरणम् ।
अत्रोच्यते, किं वाचनिकमेतत्कर्मणां त्रैविध्यम् अथ विधिवृत्तपरीक्षागम्यम् आहो फलरूपपर्यालोचनया लभ्यम् उत पुरुषेच्छाधीनमिति, तत्र वचनं तावत्तिविधविभागप्रतिपादकं नास्ति कारीरी निर्वपद् वृष्टिकामः ज्योतिष्टोमेन स्वर्गकामो यजेतेति चित्रया पशुकामः इत्येतावन्मात्रश्रवणम् , न ह्यत्रहिकत्वं
(१) शांकरब्रह्मसूत्रभाष्ये श्र० ३ पा० १ सू० ८ स्मृतित्वेनेदम् ।