________________
प्रमाणप्रकरणम्
२५३
पारलौकिकत्वमनियतत्वं वा फलस्य क चित्पठितम् , विधिवृत्तमपीयदेव यत्स. त्प्रत्ययप्रवर्त्तनं नाम तत्रेदमेवंकामेन कर्त्तव्यमित्येतावॉल्लिङर्थः अपुरुषार्थरूपे तु व्यापारे प्रवर्तकत्वलक्षणस्वव्यापारनिवहणमनधिगच्छन्विधिरधिकारिविशेष. णस्य काम्यमानस्य स्वर्गादेर्भावार्थस्य च यागादेः साध्यसाधनसम्बन्धमाक्षि. पति न काम्यमानस्य सद्यः कालान्तरे वा निष्पत्तिमाक्षिपतीति, फलस्वरूपपर्याले चनया तु सत्यं स्वर्गस्य पारलौकिकत्वमवगम्यते न तु पश्वादेनियम', पुरुषेच्छा तु पुरुषेच्छैव न तया शास्त्रार्थो व्यवस्थापयितुं शक्यः तस्मानिष्प्रमाणकं त्रैविध्यम्, ___ यस्तु चित्रादीनामनियतफलत्वे न्याय उक्त: "चित्रादीनां फलं तावत् क्षीणं तत्रैव जन्मनि"इत्यादि(१) स कारीर्यामपि निश्चितैहिकफलायां योजयितुं शक्यः।
अद्याकृतायां कारीयों न हि देवो न वर्षति ।
जन्मान्तरकृता तत्र कारीयों (री) किं न कारणम् ॥ तस्मात्सा ऽप्यनियतफला भवतु, अथ सस्यसम्पत्सम्पाद्यसुखसम्भोगसाधनभूतादृष्टनिमित्ता कारीरीष्टिरद्याकृतायामपि कारीयोंमिति मन्यसे तहि दधिक्षीरादिभक्षणसुखाक्षेपिकर्मनिमित्तकः पशुलाभो भविष्यति, अकृतचित्रायागानां कारीर्यधीन ओदनः चित्रादीनां दधीति दध्योदनभोजनसुखसाधनादृष्टकारिता पशुवृष्टिसृष्टिर्भवतु, अथ शृङ्गग्राहिकया पशुफला चित्रेष्टिरुपदिश्यते तेन न सुखसामान्याक्षेपकर्मनिबन्धनः पशुलाभः एवं तर्हि वृष्टावपि शङ्गग्राहिकया कारीरी पठ्यते एवेति वृष्टिरपि सामान्यादृष्टनिबन्धना मा भूत् ।
अथ न यदि वर्षेच्छ्रोभूते जहुयादित्यादिवचनपर्यालोचनया तस्यामैहिकफलत्वमुच्यते यद्येवं यत्र तादृशं वचनं नास्ति यो वृष्टिकामः स सौभरेण स्तु. वीत यदि कामयेत वर्षेपर्जन्य इति नीचैः सदो मिनुयादित्यादौ तत्र पारलौ. किकफलत्वं स्यात् , यदि च श्वोभूते जुहुयादिति वचनमहिम्नैव फले सद्यस्त्व. मात्रमधिकं भवतु तादृशवचनरहितानां कर्मणां विस्पष्टसिद्धमप्यहिकफलत्वं निवर्तते।
यत्पुनर्बहुसाधारणत्वेन वृष्टेरैहिकत्वमुच्यते तदपि पश्वादौ समानम न ह्यात्मम्भरिरेव यजमानो भवति तस्यापि स्ववासिनीकुमारातिथिभृत्यादिभोजनपूर्वकस्वभोजननियमोपदेशाद् बहुतरोपकारकत्वं तु वृष्टेरित्यलं तुलया।
यदपि प्रत्यासन्नत्वेन काम्यमानत्वाद् वृष्टेरेहिकत्वं कथ्यते तदपि ताहगेवपश्वादेरपि तथैव काम्यमानत्वात् तत्रावग्रहविहितसन्तापतया प्रत्यासन्नत्वेन वृष्टिरभिलष्यते इहापि दोर्गत्योद्वेगादासन्नतयैव पशवः काम्यन्ते "तस्माद्वारिद.
(१) श्लोकवार्तिके चित्रापरिहारे श्लो० १९ ।