________________
२५४
न्यायमञ्जर्याम्
स्तृप्तिमाप्नोति सुखमक्षयमन्नद" इत्यादिवचनोपदिष्टसामान्यसुखसाधनाधनिब. न्धनैवेयमिहाकृतकर्मणां वृष्टिपश्वादिसम्पदिति न बृहस्पतिमतवदकर्मनिमित्तं फलम् , नापि कर्मफलसाध्यसाधनभावनियमव्यवहारोल्लङ्घनमिति । ___यश्च कारीर्याः क चित्फलविसंवादे समाधानमुक्तं "फलति यदि न सर्व तत्कदा चित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते" इति तेन सा ऽप्यनियत. फलैव स्याद् न हि तत्कर्मान्तरमासंसारं प्रतिबन्धकं भवति फलोपभोगाद्धि तस्यावश्यं क्षयेण भवितव्यम् , प्रतिबन्धके च क्षीणे कार्या स्वफलं तदा दातव्यमेव सा ऽप्यदत्तफला न क्षीयते एवेत्येवं जन्मान्तरे तत्फल सम्भवात्तस्य अनियतफलत्वम् , अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वमस्माभिरिष्यते एव यत्र सम्यक् प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः कल्प्यते सर्वथा सद्यःफलत्वमात्रवज समानयोगक्षेमा कारीयो चित्रेष्टिः, एतेन ब्रह्मवर्चसवीर्यान्नाथप्रामादिकामेष्टयो ऽपि व्याख्याताः, तस्माद्यथाश्रुतं गौतम बोद्धव्यम् । ___ यदप्यभ्यधायि समप्राङ्गोपसंहारेण काम्यकर्मप्रयोगात्कुतः कर्मणो वैगु. ण्यावसर इति तदप्यसारम् , सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादादसंवेद्यमानवैगुण्यसम्भवात् , स च विचित्रः भाष्यकारेण प्रदर्शितः तस्मात्पूर्वोक्त एव प्रतिसमाधानमार्गः श्रेयान् ।।
स्वमतेन धर्मपदार्थनिरूपणम् । यत्पुनः पूर्वपाक्षिकेण कथितं कालान्तरे कर्माभावात्कुतः फलमिति तदपि न सम्यक
यद्यप्या फलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः । तथा ऽन्यस्त्येव संस्कारः पुरुषस्य तदाहितः ।। कर्मजन्यो हि संस्कारः पुंसां बुद्धयादिवद्गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ यथेन्द्रियादिसंयोगादात्मनो बुद्धिसंभवः । तथा यागादिकर्मभ्यस्तस्य संस्कारसंभवः ।। बुद्धिस्तु भङ्गुरा तस्य संस्कारस्तु फलावधिः । साध्यसाधनभावो हि नान्यथा फल कर्मणोः॥ स्मृतिबीजं तुं संस्कारस्तस्यान्यैरपि मृष्यते । तथैव फलसंयोगबीजं सो ऽस्य भविष्यति । स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सो ऽधर्म इति कथ्यते ॥